एकराशिस्थिताः पापाः शनिभौमदिवाकराः
अभिचारं गते जीवे शनौ च तत्र नागते
सूर्यमपश्यनो द्वंद्वं दिग्दाहश्च तथैव च
भूकम्प एव मासे च एकमासे तथा दिने 2.3.20.
दर्शनं खरवातस्य ग्रहयुद्धस्य दर्शनम्
आकाशेऽप्यथ भूमौ च तत्र मण्डूकमेव च दर्शने राष्ट्रदुर्भिक्षमकरं नृपतिक्षयः
चैत्रे कुम्भे नदीवेगदर्शने विप्लवो भवेत्
आकृष्णेनेति मन्त्रेण अथ वार्केण यत्नतः ।। प्रासादतोरणं तत्र द्वारं३.४३ प्राकारवेश्म च
धान्यसारं गवां सारं कूपे कुम्भप्रदर्शनम्
सहस्रं जुहुयाद्वाथ ततः शांतिर्भवेद्ध्रुवम्
श्वेतोलूको बृहंश्चैव द्रोणकाकश्च कोकिलः
गृहे तस्य महोत्पातो भविष्यति न संशयः
हाराः कटकटायंते जातस्य दंतसम्भवः सर्पमण्डूकप्रसवः कुंभे वापि क्वचिद्भवेत्
निमित्तान्येवमादीनि जायंते यस्य वेश्मनि 2.3.20.
अशनिः पतते यत्र गृहे वज्रं च पादपे
खर्जूर उदरावर्ते निकोचगरलेऽपि च
उद्याने देवगेहे च स्वगृहे चैत्यवृक्षके ततः शांतिर्भवेदाशु धेनुं दद्याच्च दक्षिणाम्
पायसं तिलमुद्गौ च पुष्पं वा तालवृन्तकम्
सिंहासनं रथच्छत्रं ध्वजश्चामरभूषिते
नदयंति च सत्यस्योज्ज्वलनं स्त्रीपुरुषयोः
उपरिष्टाद्भवेद्यस्य महोत्पातो भवेदयम्
रुदितं कोकिलस्यापि उलूकोप्यशुभं वदेत् हस्तिनो मदयुक्ताश्च म्रियंते नात्र संशयः
ताडीपूगादयो यत्र यमौ स्यातां प्रमादतः
बद्धपुष्पे यदा पुष्पं फलं वा यदि दृश्यते दधि मधु घृतं चैव जुहुयादयुतं द्विजाः ।।2.3.20.
पालाशं सोममुद्दिश्य सोमस्य च भवेद्दिने
उत्पतंति गृहे यस्य यवा माषाश्च पुष्कलाः
अकस्माद्गृहदाहस्तु अनग्निज्वलनं यथा
व्याधिलीना विनश्यंति निखिलाः पशुमानुषाः ३४ राजामात्यविनाशाय गेहे गेही विनश्यति
दृष्ट्वा वाभद्रमत्युग्रं जुहुयादयुतं क्रमात्
अग्निर्मूद्धेंति मंत्रेण श्रपितं लोहितं चरुम् स्वर्णमंगारमुद्दिश्य ततः शांतिः प्रजायते