द्विहस्तवेदिकामध्ये प्रकुर्यात्सेतुमंडपम्
गणेशं क्षेत्रपालं च शेषं चैव दिगीश्वरान्
स्थालीपाकेन जुहुयादन्ते वै विप्रभोजनम्
त्र्यम्बकेनैव मंत्रेण भूमिं संस्थाप्य पूजयेत्
प्रदद्यादसुनीतेति पुनस्तु नैव स्थापयेत्
एवं यूपस्य च तथा अधिगृह्णाति मंत्रकम् 2.3.17.
सुरासुरेति कुसुमं दूर्वामन्त्रेण दूर्विकाम्
स्थालीपाकेन विधिना अन्येषां पूर्ववच्चरेत्
तंत्रेण निर्मितं कुर्यात्सकलं च त्रिहस्तकम्
स्थापयेत्तत्र मन्त्रेण पञ्चगव्येन यत्नतः
तद्विष्णोरिति मन्त्रेण घटतोयैरनन्तरम्
वास्तोष्पतिं च विष्णुं च यूपे संपूजयेत्क्रमात्
अर्घ्यपात्रे च दुष्टे च हस्तेनोत्सृज्य सत्तमाः ) शिवलोकस्थिता गावः सर्वदेवैः सुपूजिताः स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते
यावंति तृणगुल्मानि संति भूमौ शुभानि च
दिनैकसाध्यप्रतिष्ठाविधानवर्णनम् सद्योधिवासमाज्येन प्रकुर्यात्तांत्रिकोत्तमः
उत्तरं तु गते हंसे अतीते चोत्तरायणे
नारायणादिमूर्तीनां द्वात्रिंशद्भेद एव तु
नित्यं निर्वर्त्य मतिमान्कुर्यादभ्युदयं ततः
गणेश ग्रहदिक्पालान्प्रतिकुंभेषु पूजयेत्
स्नापयेत्प्रथमं देवं तोयैः पञ्चविधैरपि
तिलतैलैश्च स्नेहैश्च कषायैरपि सत्तमाः
तुलसीकुसुमापुष्पपत्राण्याहुस्त्रिपत्रकम्
मृत्तिका करिदंतस्य तथाश्वखुरमृत्तिका
कुर्यात्प्राणप्रतिष्ठां च होमं कुर्याद्यथाविधि 2.3.18.
इति श्रीभविष्ये महापुराणे मध्यम पर्वणि तृतीयभागेऽष्टादशोऽध्यायः
देवादिप्रतिष्ठावर्णनम् अधिवास्य च पूर्वेद्युः श्राद्धमभ्युदयात्मकम्
प्रथमे जलजैः स्नानं पञ्चगव्यैरनंतरम्
पञ्चामृतैः पञ्चगव्यैः करीषशतधारया
बिल्वपत्रैः फलैर्वापि दद्याच्चापि शताहुतीः
प्रतिमां कालिकायाश्च तारायाश्च पृथक्पृथक्