वेदागमेन यत्पुण्यं कथितं सेतुबन्धने
यूपं दद्यादिति मन्त्रेण अन्ते चापि तथा ध्वजान्
पूर्णां दत्त्वा सवित्रेऽर्घ्यं दत्त्वा च स्वगृहं व्रजेत् 2.3.16.
पूर्वं च दधिवासं च प्रभाते विप्रभोजनम्
विष्णुं शिवं हुताशं च एककुण्डे समर्चयेत्
कुर्यादेकैकशो विप्रा अष्टा विंशतिसंख्यया ज्ञातिभिः सह भुञ्जीत कृतकृत्योऽभिधीयते
गोप्रचारविधिवर्णनम् षष्टिहस्तमितां भूमिं तस्य पूर्णां मनोरमाम्
प्रचारार्थं गवां चैव यो दद्यात्सुसमाहितः
तदर्धं च तदर्धं च तदर्धं वा समुत्सृजेत्
अलंकारं विना धेनुं फलस्यार्धं प्रकीर्तितम्
द्विहस्तवेदिकामध्ये प्रकुर्यात्सेतुमंडपम्
गणेशं क्षेत्रपालं च शेषं चैव दिगीश्वरान्
स्थालीपाकेन जुहुयादन्ते वै विप्रभोजनम्
त्र्यम्बकेनैव मंत्रेण भूमिं संस्थाप्य पूजयेत्
प्रदद्यादसुनीतेति पुनस्तु नैव स्थापयेत्
एवं यूपस्य च तथा अधिगृह्णाति मंत्रकम् 2.3.17.
सुरासुरेति कुसुमं दूर्वामन्त्रेण दूर्विकाम्
स्थालीपाकेन विधिना अन्येषां पूर्ववच्चरेत्
तंत्रेण निर्मितं कुर्यात्सकलं च त्रिहस्तकम्
स्थापयेत्तत्र मन्त्रेण पञ्चगव्येन यत्नतः
तद्विष्णोरिति मन्त्रेण घटतोयैरनन्तरम्
वास्तोष्पतिं च विष्णुं च यूपे संपूजयेत्क्रमात्
अर्घ्यपात्रे च दुष्टे च हस्तेनोत्सृज्य सत्तमाः ) शिवलोकस्थिता गावः सर्वदेवैः सुपूजिताः स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते
यावंति तृणगुल्मानि संति भूमौ शुभानि च
दिनैकसाध्यप्रतिष्ठाविधानवर्णनम् सद्योधिवासमाज्येन प्रकुर्यात्तांत्रिकोत्तमः
उत्तरं तु गते हंसे अतीते चोत्तरायणे
नारायणादिमूर्तीनां द्वात्रिंशद्भेद एव तु
नित्यं निर्वर्त्य मतिमान्कुर्यादभ्युदयं ततः
गणेश ग्रहदिक्पालान्प्रतिकुंभेषु पूजयेत्
स्नापयेत्प्रथमं देवं तोयैः पञ्चविधैरपि