जयंत्याः सोमवृक्षस्य तथा सोमवटस्य च
पाटला कनकस्यैव शाल्मलीनिंबकस्य च
भद्रकस्य शमीकोणचंडातकबकस्य च
प्रतिष्ठाविशेषनियमवर्णनम् । वृक्षादीनां प्रतिष्ठां च उत्तमेषूत्तमं चरेत्
वर्तुलं मंडलं कुर्यात्तत्तु शीर्षे तथान्त्यके
पूर्वेद्यू रात्रिसमये घटं संस्थाप्य पूजयेत्
गंधतोयेन गायत्र्या सेतुं संपूज्य मोक्षयेत्
दद्याद्गन्धादिकं श्रीश्च ते लक्ष्मीरिति चन्दनम्
शन्नोदेवीति मन्त्रेण दद्यात्कुशपवित्रकम्
अञ्जनालक्तकं कुर्यान्मनोन्ना इति संपठन्
वरयेदथ आचार्यं होतारं नृवरश्चरेत्
सेतुयागे विधातव्यं तथा धान्याचलेपि च
यजेदेनं कृते मौलियागार्थं यागमंडपम् 2.3.16.
विघ्नग्रहाँल्लोकपालान्सर्वसिद्धिप्रदायकान्
तत्रैव तु वराहाख्यं प्रतीतमृत्विगुत्तमम्
आज्येन तु वराहस्य होमपञ्चकमीरितम् । ततस्तिलयवेनैव एकैकामाहुतिं क्रमात्
बलिं दद्यात्पृथग्रूपं शेषयेद्विधिपूर्वकम्
माषभक्तं तु लोकाय पृथिव्यै परमान्नकम्
( ॐ अद्येत्यादि एकविंशतिकुलस्य विशिष्टस्वर्गप्राप्तय इमं सेतुं संक्रमसमेतं विष्णुदैवतं सुरपूजितं विधिवद्वासुदेवस्य प्रीतयेऽहमुत्सृजे पिच्छिले पतितानां च उद्गतेनाङ्गभङ्गतः
सेतोरस्य प्रबन्धस्य श्रद्धया परया युतः
वेदागमेन यत्पुण्यं कथितं सेतुबन्धने
यूपं दद्यादिति मन्त्रेण अन्ते चापि तथा ध्वजान्
पूर्णां दत्त्वा सवित्रेऽर्घ्यं दत्त्वा च स्वगृहं व्रजेत् 2.3.16.
पूर्वं च दधिवासं च प्रभाते विप्रभोजनम्
विष्णुं शिवं हुताशं च एककुण्डे समर्चयेत्
कुर्यादेकैकशो विप्रा अष्टा विंशतिसंख्यया ज्ञातिभिः सह भुञ्जीत कृतकृत्योऽभिधीयते
गोप्रचारविधिवर्णनम् षष्टिहस्तमितां भूमिं तस्य पूर्णां मनोरमाम्
प्रचारार्थं गवां चैव यो दद्यात्सुसमाहितः
तदर्धं च तदर्धं च तदर्धं वा समुत्सृजेत्
अलंकारं विना धेनुं फलस्यार्धं प्रकीर्तितम्