अधिवासस्य पूर्वेद्युर्यथावद्विप्रभोजनम्
नारायणं स्थंडिले च जुहुयान्मधुपायसम्
वेष्टयेद्रक्तसूत्रैश्च प्रदद्याच्चेति दक्षिणाम्
ऐशान्यां यूपमारोप्य विधिवद्द्विजसत्तमाः
धान्यं यवं च गोधूमं दद्याद्विप्राय दक्षिणाम्
तुलसीप्रतिष्ठाविधानवर्णनम् यजमानः शुद्धदिने एकादश्यामथापि वा
ततो रात्रौ घटं स्थाप्य पूजयेत्परमेश्वरम्
गायत्र्या स्नपनं कुर्यात्तथोक्तैर्मंत्रकैरपि
त्वां गंधर्वेति च पुनः पुष्पं मंडंशनेति च
वैश्वदेवीति च पुनर्मंत्रेणानेन चंदनम्
फलमंत्रेण च फलं समेधेति च अंजनम्
शतधाराजलेनैव वेष्टयेत्स्वगृहं व्रजेत्
सप्तपंचत्रिभिर्वाथ तद्विष्णोरिति वै ऋचा
ततः श्राद्धं समाप्यैव मातृपूजापुरःसरम्
आचार्य एव होता स्याद्ब्रह्माणं च सदस्यकम् 2.3.15.
सहस्रं मंडलं कुर्यात्तत्र नारायणं यजेत्
रुद्रान्वसूंश्च कलशे परितश्च समर्चयेत्
अष्टोत्तरशतं कुर्यादन्येषां शक्तितो हुनेत्
मध्ये यूपं समुद्दिश्य चरुपाकं बलिं ददेत्
दक्षिणां कांचनं दद्यात्तिलं धान्यं सपुष्पकम्
जयंत्याः सोमवृक्षस्य तथा सोमवटस्य च
पाटला कनकस्यैव शाल्मलीनिंबकस्य च
भद्रकस्य शमीकोणचंडातकबकस्य च
प्रतिष्ठाविशेषनियमवर्णनम् । वृक्षादीनां प्रतिष्ठां च उत्तमेषूत्तमं चरेत्
वर्तुलं मंडलं कुर्यात्तत्तु शीर्षे तथान्त्यके
पूर्वेद्यू रात्रिसमये घटं संस्थाप्य पूजयेत्
गंधतोयेन गायत्र्या सेतुं संपूज्य मोक्षयेत्
दद्याद्गन्धादिकं श्रीश्च ते लक्ष्मीरिति चन्दनम्
शन्नोदेवीति मन्त्रेण दद्यात्कुशपवित्रकम्
अञ्जनालक्तकं कुर्यान्मनोन्ना इति संपठन्