वरुणस्योत्तंभनमसीति च आभ्यां देवांस्तथैव च
रात्रस्य यूपमित्यादि परं च दशमस्तकम् 2.3.13.
इह वेत्यादिकं पंच ततः पंचाहुतिं हुनेत्
चरुपाकेति नैवेद्यं बलिं चैवागुरूदनम् उग्राय असनायेति भवाय तद नंतरम्
महादेवाय च पुनरीशानायेति च क्रमात्
वाक्यपूर्वं सृजेत्तोयं तत्र वाक्करणं शृणु
( ॐ अद्येत्यादि ब्राह्मणादिसर्वसत्त्वेभ्यः अमुकगोत्रस्य मत्पितुरमुकदेवशर्मणः श्रुतिस्मृत्यायुक्तं कूपप्रतिष्ठाजन्यफलप्राप्तये इमं सु पूजितं सच्छादितं वरुणदैवतममुकसगोत्रः अमुकदेवशर्माहमुत्सृजे)
मंडपे क्षुद्रकूपे च प्रतिष्ठां शृणुत द्विजाः
वेष्टयेद्रक्तसूत्रैश्च दद्यायूपं समुत्सृजेत्
पुष्पवाटिकाप्रतिष्ठाविधानवर्णनम् मध्ये वेदिं त्रिहस्तां च कृत्वा संस्थापयेद्घटम्
अधिवासस्य पूर्वेद्युर्यथावद्विप्रभोजनम्
नारायणं स्थंडिले च जुहुयान्मधुपायसम्
वेष्टयेद्रक्तसूत्रैश्च प्रदद्याच्चेति दक्षिणाम्
ऐशान्यां यूपमारोप्य विधिवद्द्विजसत्तमाः
धान्यं यवं च गोधूमं दद्याद्विप्राय दक्षिणाम्
तुलसीप्रतिष्ठाविधानवर्णनम् यजमानः शुद्धदिने एकादश्यामथापि वा
ततो रात्रौ घटं स्थाप्य पूजयेत्परमेश्वरम्
गायत्र्या स्नपनं कुर्यात्तथोक्तैर्मंत्रकैरपि
त्वां गंधर्वेति च पुनः पुष्पं मंडंशनेति च
वैश्वदेवीति च पुनर्मंत्रेणानेन चंदनम्
फलमंत्रेण च फलं समेधेति च अंजनम्
शतधाराजलेनैव वेष्टयेत्स्वगृहं व्रजेत्
सप्तपंचत्रिभिर्वाथ तद्विष्णोरिति वै ऋचा
ततः श्राद्धं समाप्यैव मातृपूजापुरःसरम्
आचार्य एव होता स्याद्ब्रह्माणं च सदस्यकम् 2.3.15.
सहस्रं मंडलं कुर्यात्तत्र नारायणं यजेत्
रुद्रान्वसूंश्च कलशे परितश्च समर्चयेत्
अष्टोत्तरशतं कुर्यादन्येषां शक्तितो हुनेत्
मध्ये यूपं समुद्दिश्य चरुपाकं बलिं ददेत्
दक्षिणां कांचनं दद्यात्तिलं धान्यं सपुष्पकम्