आकृष्णेनेति तैलेन श्रीश्च ते इति चंदनम्
ततः प्रभाते विमले श्राद्धं वृद्ध्यात्मकं चरेत्
मध्ये वेद्यंतरे चैव राजभिर्मडलं लिखेत्
गणेशं च ग्रहांश्चैव दिक्पालांश्च घटेऽर्चयेत्
आदित्यस्य तथा विष्णोः सोमस्य द्वादशाहुतीः
तत उत्सृज्य विधिवद्वाक्यमेतदुदीरयेत्
वास्तोष्पतिं च तत्रैव पूजयेद्गन्धचन्दनैः 2.3.12.
( ॐ अद्येत्यादि ब्राह्मणादिसर्वसत्त्वेभ्यो विष्णुप्रीणनार्थमिमं मण्डपं सुपूजितं सूर्यदैवतं शैलेयेष्टकादिभिः सर्वसत्त्वेभ्यो रचितं श्रुतिस्मृत्युक्तफलप्राप्तिकामनया अमुकऋषिसगोत्रः अमुकदेवशर्माहमुत्सृजे त्रिगुणेन निशाक्तैर्वा वेष्टयेद्वारिधारया
दक्षिणां विधिवद्दद्यात्सूर्यायार्घ्यं निवेदयेत्
घटे गणेशं वरदं वरं कृत्वा समुत्सृजेत्
मण्डपोपरि कलशं संस्थाप्य मन्त्रमुच्चरेत्
पृथिवीं च गणेशं च पूजयित्वा हुनेद्घृतम्
महायूपनिर्माणप्रतिष्ठावर्णनम् वक्ष्ये तं च प्रतिष्ठां च रात्रौ त्रैरात्रिकं यजेत्
वरुणं सितकुंभे च प्रपाकूपस्य पश्चिमे
गंधद्वारेति गन्धं च अंशुना चेति तैलकम्
कयानेति ददेद्वस्त्रं नैवेद्यं दीपचन्दनम्
दंपतीभोजनं कुर्याद्वरयेदेकब्राह्मणम्
पूजयेद्वरुणं देवं नारायणसमन्वितम्
ततः कुशकंडिकां कृत्वा स्थालीपाकविधानतः
अन्येषां च स्रुवेणैव दद्यादेकाहुतिं क्रमात्
वरुणस्योत्तंभनमसीति च आभ्यां देवांस्तथैव च
रात्रस्य यूपमित्यादि परं च दशमस्तकम् 2.3.13.
इह वेत्यादिकं पंच ततः पंचाहुतिं हुनेत्
चरुपाकेति नैवेद्यं बलिं चैवागुरूदनम् उग्राय असनायेति भवाय तद नंतरम्
महादेवाय च पुनरीशानायेति च क्रमात्
वाक्यपूर्वं सृजेत्तोयं तत्र वाक्करणं शृणु
( ॐ अद्येत्यादि ब्राह्मणादिसर्वसत्त्वेभ्यः अमुकगोत्रस्य मत्पितुरमुकदेवशर्मणः श्रुतिस्मृत्यायुक्तं कूपप्रतिष्ठाजन्यफलप्राप्तये इमं सु पूजितं सच्छादितं वरुणदैवतममुकसगोत्रः अमुकदेवशर्माहमुत्सृजे)
मंडपे क्षुद्रकूपे च प्रतिष्ठां शृणुत द्विजाः
वेष्टयेद्रक्तसूत्रैश्च दद्यायूपं समुत्सृजेत्
पुष्पवाटिकाप्रतिष्ठाविधानवर्णनम् मध्ये वेदिं त्रिहस्तां च कृत्वा संस्थापयेद्घटम्