क्षीरधारां च संपाद्य अर्घ्यं दत्त्वा गृहं व्रजेत्
वटप्रतिष्ठाविधानवर्णनम् त्रिहस्तवेदिमुपरि स्थापयेत्कलशत्रयम्
गणेशं च शिवं विष्णुं पूजयित्वा हुनेच्चरुम्
यवक्षीरबलिं दद्यादुत्सृजेद्वाक्यमुच्चरन्
यक्षान्नागांश्च गंधर्वान्सिद्धांश्चैव मरुद्गणान्
बिल्वप्रतिष्ठाविधानवर्णनम् त्र्यंबकं चेति मंत्रेण स्थापयेद्गंधवारिणा
सुनाभेति च मंत्रेण मे गृह्णामीति चाक्षतम्
यजेद्रुद्रं ततो देवं मध्ये दुर्गां धनेश्वरम्
स्वगृहे सप्त विप्रांश्च भोजयेद्द्विजदंपती
तत्र गैरिकयुक्तेन कुसुंभचूर्णकेन वा
निवेष्टनं ततः कुर्याद्वृक्षस्य द्विजसत्तमाः
व्रीहींश्च वापयेत्तत्र उत्तराभिमुखस्तथा
शिवं च नायकं कुर्यादादित्यान्पत्रमूलके
वनपालं च सोमं च सूर्यं पृध्वीमनुक्रमात्
यक्षेभ्यो माषभक्तं च वायनानि च द्वादश 2.3.10.१० कांचनं कांस्यपात्रं च तांबूलं ताम्रपात्रकम्
अथ रात्रिप्रतिष्ठां च वक्ष्ये शास्त्रानुसारतः
पूर्वेद्युरुपवाहे तु वृक्षमूले घटं न्यसेत्
कलशान्पञ्च वा सप्त गंधतैलैरलंकृतान्
सूत्रैः संवेष्टनं कृत्वा वस्त्रमाल्यैरनंतरम्
विष्णुसूक्तेन च पुनः सिंदूरांजनचंदनम्
हुनेत्पंचाहुतीस्तत्र यूपं दद्यात्समुत्सृजेत्
बलिं च पायसेनैव प्रकुर्यात्कर्णवेधनम्
दद्यादर्घ्यं हुनेत्पूर्णं भोजयेद्द्विजदंपती
सद्वृक्षप्रतिष्ठाविधानवर्णनम् पूगाम्रादिफलैर्युक्तं वास्तुं कृत्वा यजेत्तु यः
षष्टिवर्षसहस्राणि स्वर्गलोके वसेच्चिरम्
नित्यं निर्वर्त्य विधिवत्पंच विप्रान्समर्चयेत्
अग्निकार्यं ततः कृत्वा दद्याद्विप्राय दक्षिणाम्
मण्डपप्रतिष्ठाविधानवर्णनम् तृणकाष्ठस्य च विभो तृणवत्तस्य च द्विजाः
अधिवासस्य पूर्वेद्युः शुभे लग्ने घटं न्यसेत्
प्रोक्षयेत्कुशतोयेन आपोहिष्ठेति वै ऋचा