स्थापयेद्वारिणा पूर्णं कया नेति च गंधकम्
दद्याद्दूर्वाक्षतं कल्ये ब्राह्मणत्रयभोजनम्
कुम्भे विनायकं पूज्य ब्रह्माणं च परे घटे
मंडले शिवमभ्यर्च्यं पीठपूजा पुरःसरम्
अनंतं पश्चिमे काममुत्तरे गणनायकम्
अथ ध्यानं प्रवक्ष्यामि श्वेतं वृषभमेव च
द्विभुजं शूलहस्तं च सर्वाभरणसंयुतम्
शंकरं च तथा मध्ये अग्रे ब्रह्माणकं यजेत् 2.3.8.
जुहुयाद्रुद्रमुद्दिश्य रुद्रसंख्याहुतिं क्रमात्
रोपयेत्कदलीवृक्षमाचार्यं परितोषयेत्
क्षीरधारां च संपाद्य अर्घ्यं दत्त्वा गृहं व्रजेत्
वटप्रतिष्ठाविधानवर्णनम् त्रिहस्तवेदिमुपरि स्थापयेत्कलशत्रयम्
गणेशं च शिवं विष्णुं पूजयित्वा हुनेच्चरुम्
यवक्षीरबलिं दद्यादुत्सृजेद्वाक्यमुच्चरन्
यक्षान्नागांश्च गंधर्वान्सिद्धांश्चैव मरुद्गणान्
बिल्वप्रतिष्ठाविधानवर्णनम् त्र्यंबकं चेति मंत्रेण स्थापयेद्गंधवारिणा
सुनाभेति च मंत्रेण मे गृह्णामीति चाक्षतम्
यजेद्रुद्रं ततो देवं मध्ये दुर्गां धनेश्वरम्
स्वगृहे सप्त विप्रांश्च भोजयेद्द्विजदंपती
तत्र गैरिकयुक्तेन कुसुंभचूर्णकेन वा
निवेष्टनं ततः कुर्याद्वृक्षस्य द्विजसत्तमाः
व्रीहींश्च वापयेत्तत्र उत्तराभिमुखस्तथा
शिवं च नायकं कुर्यादादित्यान्पत्रमूलके
वनपालं च सोमं च सूर्यं पृध्वीमनुक्रमात्
यक्षेभ्यो माषभक्तं च वायनानि च द्वादश 2.3.10.१० कांचनं कांस्यपात्रं च तांबूलं ताम्रपात्रकम्
अथ रात्रिप्रतिष्ठां च वक्ष्ये शास्त्रानुसारतः
पूर्वेद्युरुपवाहे तु वृक्षमूले घटं न्यसेत्
कलशान्पञ्च वा सप्त गंधतैलैरलंकृतान्
सूत्रैः संवेष्टनं कृत्वा वस्त्रमाल्यैरनंतरम्
विष्णुसूक्तेन च पुनः सिंदूरांजनचंदनम्