ध्यात्वा आरोपयेदेवं बालादीनथ नायकान्
षोडशोच्चैः पृथग्रूपैः प्रतिपुष्पांजलिक्रमात् 2.3.5.
शुद्धस्फटिकसंकाशं ध्यायेत्सोमं चतुर्मुखम्
वरदं देवगंधर्वैः सेवितं मुनिभिः स्तुतम्
स्वरथस्थं महाबाहुं शंखांकुशसखेटकम्
दशस्वरान्वितं तोयं स्वभावं तमसान्वितम्
नीलं जयं भृंगिणं च परितश्च यथाक्रमात्
अष्टोत्तरशतं चैव सोमाय द्वादशाहुतीः
एकैकामाहुतिं दद्यात्सप्तजिह्वामनंतरम्
वनस्पतिं समुद्दिश्य ततोयमीरयेदृचम्
अब्जैरग्रं कांस्यवस्त्रं रत्नं दिक्षु यथाक्रमम्
मित्रत्रयश्चेति तथा पूषा च म ऋचा तथा 2.3.5.
क्षिपेद्गङ्गाजलं तोये सर्वौषध्युदकेन च
आचार्यमात्मने तत्र संस्थितं द्विजपुंगवैः
धेनुं च लोहपात्रं च दत्त्वा इष्टां च दक्षिणाम्
क्षुद्रारामप्रतिष्ठावर्णनम् अमंडले शुभे स्थाने द्विहस्तम यस्थंडिले
स्थापयेत्कलशं तत्र सोमं विष्णुं समर्चयेत्
वृक्षान्माल्यैरलंकृत्य भूषयेद्भूषणादिना
भोजयेत्पंचविप्रांश्च पुरतोंऽते विशेषतः
दद्याद्यूपं मध्यदेशे रोपयेत्कदलीं ततः
अष्टावष्टौ च जुहुयादन्येषां च घृतेन तु
दक्षिणां च ततो दद्यात्पूर्णां दद्याद्गृहं व्रजेत्
श्रेष्ठवृक्षप्रतिष्ठाविधानवर्णनम् वृक्षस्य पश्चिमे भागे स्थापयेत्कलशं ततः
वृक्षं संस्थापयेत्पूर्वं सूत्रेण परिवेष्टयेत्
ततस्तिलयवैर्होमानष्टाष्टौ विधिवच्चरेत्
वृक्षमूले यजेद्धर्मं पृथिवीं च विशं तथा
धेनुं च दक्षिणां दद्याद्दोहदं वृक्षपूजनम्
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे सप्तमोऽध्यायः
अश्वत्थप्रतिष्ठाविधानवर्णनम् स्थण्डिलं कारयेत्तत्र चंदनेनाङ्कितं यथा
पद्मं प्रकल्पयेत्तत्र सामान्यार्घ्यं विधाय च