तद्दक्षिणे भवेत्कुंडं चतुरस्रं समं शुभम्
मंदरादिकमावाह्य ततः संपूजयेत्क्रमात् 2.3.5.
भृगुं कर्णसमारूढं सर्वभूषणभूषितम्
द्वारपालं च संपूर्णं गौर्यादीन्कलशेषु च
नैर्ऋत्यवरुणयोर्मध्ये अनंतं प्रतिपूजयेत्
वेदिपार्श्वे ततो गत्वा वेदिमावाह्य पूजयेत्
ऐशाने कलशे विद्युद्ब्रह्माणं च तथा ग्रहान्
मडलेशं वासुदेवं सासनं च बृहस्पतिम्
द्विभुजं वासुदेवं च शंख चक्रधरं विभुम्
नीलोत्पलदलाभासं हरिचंदनचर्चितम्
ध्यात्वा आरोपयेदेवं बालादीनथ नायकान्
षोडशोच्चैः पृथग्रूपैः प्रतिपुष्पांजलिक्रमात् 2.3.5.
शुद्धस्फटिकसंकाशं ध्यायेत्सोमं चतुर्मुखम्
वरदं देवगंधर्वैः सेवितं मुनिभिः स्तुतम्
स्वरथस्थं महाबाहुं शंखांकुशसखेटकम्
दशस्वरान्वितं तोयं स्वभावं तमसान्वितम्
नीलं जयं भृंगिणं च परितश्च यथाक्रमात्
अष्टोत्तरशतं चैव सोमाय द्वादशाहुतीः
एकैकामाहुतिं दद्यात्सप्तजिह्वामनंतरम्
वनस्पतिं समुद्दिश्य ततोयमीरयेदृचम्
अब्जैरग्रं कांस्यवस्त्रं रत्नं दिक्षु यथाक्रमम्
मित्रत्रयश्चेति तथा पूषा च म ऋचा तथा 2.3.5.
क्षिपेद्गङ्गाजलं तोये सर्वौषध्युदकेन च
आचार्यमात्मने तत्र संस्थितं द्विजपुंगवैः
धेनुं च लोहपात्रं च दत्त्वा इष्टां च दक्षिणाम्
क्षुद्रारामप्रतिष्ठावर्णनम् अमंडले शुभे स्थाने द्विहस्तम यस्थंडिले
स्थापयेत्कलशं तत्र सोमं विष्णुं समर्चयेत्
वृक्षान्माल्यैरलंकृत्य भूषयेद्भूषणादिना
भोजयेत्पंचविप्रांश्च पुरतोंऽते विशेषतः
दद्याद्यूपं मध्यदेशे रोपयेत्कदलीं ततः