ब्रह्मानंदेन हरिणो हतस्तत्र महावने
एतस्मिन्नंतरे देवी शारदा च शुभानना
दृष्ट्वा तां मोहिताः सर्वे स्वैः स्वैर्बाणैरताडयन्
आह्लादाद्याश्च ते शूरा विस्मिताश्च बभूविरे
तदा च पीडिता देवी भयभीता ययौ वनम्
वनांतरं च संप्राप्य देवी धृत्वा स्वकं वपुः
यदा ते च भयं भूयात्तदा त्वं मां सदा स्मर 3.3.10.
इत्युक्त्वान्तर्हिता देवी शारदा सर्वमंगला
तदा पराक्रमं तेषां दृष्ट्वा राजा सुखोऽभवत्
वसंतसमये रम्ये ययुस्ते प्रमदावनम्
ऊषुस्तत्र व्रताचारे माधवे कृष्णवल्लभे
ऋतुकालोद्भवैः पुष्पैर्धूपैर्दीपैर्विधानतः
कंदमूलफलाहारा जीवहिंसाविवर्जिताः
ददौ तेभ्यो वरं रम्यं तच्छृणुध्वं समाहिताः
कालज्ञत्वं च देवाय ब्रह्मज्ञत्वं नृपाय च
कृतकृत्यास्तदा ते वै स्वगेहं पुनराययुः
श्यामांगं सात्यकेरंशं सुषुवे शुभलक्षणम्
आषाढे मासि संप्राप्ते कृष्णांशो हयवाहनः
दृष्ट्वा स नगरीं रम्यां चतुर्वर्णनिषेविताम् 3.3.11.
दत्त्वा स्वर्णं द्विजातिभ्यः संतर्प्य द्विजदेवताः
नत्वा स मातुलं धीमांस्तथान्याँश्च सभासदः
तदा नृपाज्ञया शूरा बंधनाय समुद्यताः
मोहितं तं नृपं कृत्वा दुष्टबुद्धिर्महीपतिः
एतस्मिन्नंतरे वीरो बोधितो देवमायया
हत्वा पंचशतं शूरो हयारूढो महाबली ।। उर्वीयां नगरीं प्राप्य जलपाने मनो दधौ
कूपे दृष्ट्वा शुभा नार्यो घटपूर्तिकरीस्तदा
दृष्ट्वा ताः सुंदरं रूपं मोहनायोपचक्रिरे
वनं गत्वा रिपुं जित्वा बद्ध्वा तमुभयं बली
श्रुत्वा स करुणं वाक्यं त्यक्त्वा स्वनगरं ययौ 3.3.11.
श्रुत्वा परिमलो राजा द्विजातिभ्यो ददौ धनम्