आदित्याध्यायकं जप्त्वा क्षिपेल्लाजकपर्दकान्
सूत्रेण वेष्टयेत्प्राज्ञो रक्तेन च चतुष्क्रमात्
सरोवरादिप्रतिष्ठाविधानवर्णनम् विधिं वक्ष्ये सहाङ्गेन विधानं शृणुत द्विजाः
स्वर्णपादेन मानेन पूर्वेद्युरधिवास येत्
स्वमण्डले शुभे स्थाने विशेत्पूर्वमुखेन तु
वागीशं च तथा विष्णुं सूर्ये कुंभे समर्चयेत्
एकैकामाहुतिं दद्यादन्येषां च स्रुवेण च
यूपं निवेशयेत्पश्चाद्दद्याद्धेनुं च दक्षिणाम्
आरामस्य विधिं वक्ष्ये प्रतिष्ठाविधिविस्तरम्
अरण्यमध्ये पाश्चात्ये उत्तरे वा विशेषतः
तद्दक्षिणे भवेत्कुंडं चतुरस्रं समं शुभम्
मंदरादिकमावाह्य ततः संपूजयेत्क्रमात् 2.3.5.
भृगुं कर्णसमारूढं सर्वभूषणभूषितम्
द्वारपालं च संपूर्णं गौर्यादीन्कलशेषु च
नैर्ऋत्यवरुणयोर्मध्ये अनंतं प्रतिपूजयेत्
वेदिपार्श्वे ततो गत्वा वेदिमावाह्य पूजयेत्
ऐशाने कलशे विद्युद्ब्रह्माणं च तथा ग्रहान्
मडलेशं वासुदेवं सासनं च बृहस्पतिम्
द्विभुजं वासुदेवं च शंख चक्रधरं विभुम्
नीलोत्पलदलाभासं हरिचंदनचर्चितम्
ध्यात्वा आरोपयेदेवं बालादीनथ नायकान्
षोडशोच्चैः पृथग्रूपैः प्रतिपुष्पांजलिक्रमात् 2.3.5.
शुद्धस्फटिकसंकाशं ध्यायेत्सोमं चतुर्मुखम्
वरदं देवगंधर्वैः सेवितं मुनिभिः स्तुतम्
स्वरथस्थं महाबाहुं शंखांकुशसखेटकम्
दशस्वरान्वितं तोयं स्वभावं तमसान्वितम्
नीलं जयं भृंगिणं च परितश्च यथाक्रमात्
अष्टोत्तरशतं चैव सोमाय द्वादशाहुतीः
एकैकामाहुतिं दद्यात्सप्तजिह्वामनंतरम्
वनस्पतिं समुद्दिश्य ततोयमीरयेदृचम्