कुंभे विनायकं पूज्य ब्रह्माणं च परे घटम्
मंडले शिवमभ्यर्च्य पीठपूजापुरःसरम्
द्विभुजं शूलहस्तं च सर्वाभरणसंयुतम्
ततोर्घ्यपात्रं कृत्वा तु पीठपूजां समाचरेत्
मध्ये आधारशक्तिं च कूर्मानंतौ सपद्मकौ
पुनः पात्रांतरस्थं च गृहीत्वा कुसुमं बुधः 2.3.4.
पूर्ववच्च विधानेन दद्यात्पात्रादिकं त्रयम्
मुद्रां प्रदर्श्य विधिवदंगपूजां समाचरेत्
अनंतं पुरतश्चैव तेषामस्त्राणि तद्बहिः
भूस्तत्त्वं च भुवस्तत्वं स्वस्तत्त्वादि च तत्त्वकम्
विनायकं च विष्णुं च गङ्गां पृथिविषष्टिकम्
षोडशेनोपचारेण पूजयेच्च विशेषतः
पंचकृष्णालकैः कुर्याद्बृहत्पर्वप्रमाणकम्
पूजयेत्परया भक्त्या अग्निकार्यमथाचरेत्
तिलाक्षतैर्वा आज्यैर्वा त्रिमध्वक्तैरथापि वा
एकैकामाहुतिं दद्यात्पुष्पैस्तिलघृतेन च ।। 2.3.4.
अष्टावष्टौ च जुहुयाद्घृतैरेकाहुतिर्भवेत
एकाहुतिं ततो दद्यादापोहिष्ठेति वा त्रिभिः
इमं वरुण इति वा तद्वरोमा ऋचा पुनः
वातस्ययमिति पुनः पञ्चवर्णं यथाक्रमात्
ततः स्विष्टकृते दद्याद्बलिं दद्यादनुक्रमात्
यवक्षीरं दिगीशेभ्यो ह्यन्येभ्यः पायसेन तु
अनंतस्योत्तरे तीरे पद्मपत्रं परिस्तरेत्
कुर्यात्पूर्वद्वयेनापि बाणरत्तिसुवर्णकैः
वरुणं विन्यसेत्तत्र तथा पुष्करिणीमपि
ॐ अद्येत्यादि विष्णुरूपाय करुणाय श्रुतिरत्याद्युक्तवेदव्याससप्रणीताग्निष्टोमफलप्राप्तये पुष्करिणीप्रतिष्ठाकर्मणि इमां पुष्करिणीं सुवर्णराजतां स्वगृह्योदितां सालंकारां सुपूजिताममुकगोत्रः अमुकदेवशर्मा तुभ्यमहं संप्रददे ॐ अद्येत्यादि ब्राह्मणमुख्येभ्यः ममाग्निष्टोमाद्यनेकफलप्राप्तये इमं जलाशयं वरुणदैवतं सुपूजितं चतुर्मुखसहितं चतुःसत्त्वावच्छिन्नस्नानपानाद्युपभोगाय अमुकसगोत्रः अमुकदेवशर्माहमुत्सृजे जलाशयस्य मध्यं तु ऋत्विग्घोमं चरेत्ततः ।। 2.3.4.
पूर्वावस्थायिनीं यष्टिं समारोप्य विधानतः पुष्करिण्यासमं तेन नागयष्ट्यंतरे क्षिपेत्
तत्रैवानंतनागं च मंत्रमेतदुदीरयेद् फणासहस्रसंयुक्त सुप्रतिष्ठ नमोऽस्तु ते
दक्षिणां च ततो दद्यात्ततः पूर्णां विधाय च
पद्मोत्पलं च शैवालं मंत्रमेव प्रयत्नतः