रञ्जितः कदलीवृक्षं वरुणाय समुत्सृजेत् कर्णवेधं ततः कृत्वा उत्सृजेद्वाक्यमुच्चरन्
ॐ अद्येत्यादि सर्वभूतेभ्यः फलपुष्पपत्रच्छायावृतमुख्यनानातरुविरचितमारामं वनस्पतिदेवतं सुपूजितं वेदव्यासाद्युक्तफलावाप्तये अमुकऋषिसगोत्रः अमुकदेव शर्माहमुत्सृजे वृक्षाग्रात्पतितस्यापि आरोहात्पतितस्य वा ।। 2.3.2.
मरणे चास्थिभंगे वा कर्ता पापैर्न लिप्यते
तद्दोशमनार्थाय तस्याप्येतत्प्रतिष्ठितम्
मधुलाजाक्षतं दद्यादञ्जनं माल्यमेव च
वेष्टयेत्क्षीरधारां च पातयेद्घृतधारया
क्षुद्रारामप्रतिष्ठावर्णनम् अमंडले शुभे स्थाने द्विहस्तेऽप्यथ स्थंडिले
स्थापयेत्कलशं तत्र विष्णुं सोमं समर्चयेत्
वृक्षान्माल्यैरलंकृत्य भूषयेद्भूषणादिना
भोजयेत्पञ्चविप्रान्हि पुरतस्तं विशेषयेत्
दद्याद्यूपं मध्यदेशे रोपयेत्कदलीं ततः
अष्टावष्टौ च जुहुयादन्येषां च घृतेन तु
दक्षिणां च ततो दद्यात्पूर्णां दत्त्वाहुतिं व्रजेत्
एकादिवृक्षं वृक्षाणां विधिं वक्ष्ये द्विजोत्तमाः
वृक्षमूले यजेद्धर्मं पृथिवी च विशं तथा
धेनुं च दक्षिणां दद्याद्दोहदं वृक्षपूजनम् 2.3.3.
क्षुद्रारामप्रतिष्ठावर्णनम् स्थंडिलं कारयेत्तत्र चंदनेनोक्षितं तथा
पद्मं प्रकल्पयेत्तत्र सामान्यार्घ्यं विधाय च
स्थापयेद्वारिणा पूर्णं कया नेति च गन्धकम्
दद्याद्दूर्वाक्षतं कल्पे ब्राह्मणत्रयभोजनम
कुंभे विनायकं पूज्य ब्रह्माणं च परे घटम्
मंडले शिवमभ्यर्च्य पीठपूजापुरःसरम्
द्विभुजं शूलहस्तं च सर्वाभरणसंयुतम्
ततोर्घ्यपात्रं कृत्वा तु पीठपूजां समाचरेत्
मध्ये आधारशक्तिं च कूर्मानंतौ सपद्मकौ
पुनः पात्रांतरस्थं च गृहीत्वा कुसुमं बुधः 2.3.4.
पूर्ववच्च विधानेन दद्यात्पात्रादिकं त्रयम्
मुद्रां प्रदर्श्य विधिवदंगपूजां समाचरेत्
अनंतं पुरतश्चैव तेषामस्त्राणि तद्बहिः
भूस्तत्त्वं च भुवस्तत्वं स्वस्तत्त्वादि च तत्त्वकम्