चतुर्णामेव वर्णानां स्थित्यर्थं मृगपक्षिणाम्
भग्ने स्तम्भे तृणे जीर्णे पुनस्तृणप्रदापने 2.3.2.
घातापायादिदोषेण म्रियंते यदि जन्तवः
मानुषाः पशवो ये च निवसन्तीह मण्डपे
ततस्त्रिगुणसूत्रेण सुत्रामाणेति वै ऋचा
उपानहौ तथा छत्रमाचार्याय निवेदयेत्
दीनेभ्यश्च पृथग्दद्याद्गृहं विप्रपुरःसरम्
एवं प्रपायां विज्ञेयो विशेषो वरुणं व्रजेत्
स्थालीपाकविधानेन प्रकुर्याद्देशिकोत्तमः
ऋत्विजे ताम्रपात्रं च जलपूर्णं च धान्यकम्
ब्रह्माणं नागराजानं द्वारपालौ च पश्चिमे
बलिदानं विधानेन कृत्वा दद्याद्यथाविधि 2.3.2.
वज्री च धूमली कृष्णा पीता चैवाथ वारुणी
कुंभेषु पूजयेद्देवान्महेशं प्रथमं बुधः
वेदिकापूर्वभागे तु उत्तरे कलशे शिवम्
कलशे विधिवद्भक्त्या उपचारैः पृथग्विधैः
यो नागास्तान्प्रवक्ष्यामि अनंतो वासुकिस्तथा पद्मश्चैव महापद्मो मन्त्रैरेभिः पृथक्पृथक्
पुंडरीकदलाभास शुभकर्णांतलोचन
अनंत नागराजेन्द्र इहागच्छ नमोऽस्तु ते
सर्वनागस्य शूरस्य कृतस्वस्तिकलांछन
नवीनजलदश्याम श्रीमन्कमललोचन
शंखपाल इति ख्यात जलाधारप्रतीक्षक 2.3.2.
अतिपीत सुवर्णाभ चन्द्रार्धांकितमस्तक
कुलीर नागराजेंद्र सर्वसत्त्वहिते रत
यः सुवर्णेन वर्णेन पद्मपत्रायतेक्षणः तस्मै ते पद्मनागेन्द्र तीव्ररूप नमोऽस्तु ते
नागिन्यो नागकन्याश्च तथा नागकुमारकाः
स्वगृह्योक्तेन विधिना कृत्वाग्निस्थापनं बुधः
आदित्यादिग्रहांश्चैव ब्रह्माणं कृष्णमेव च
प्रादेशमात्रं संप्रोक्ष्य यूपं चास्य प्रमाणकम्
कूपे निक्षिप्य तान्नागान्पञ्चरत्नं क्षिपेत्ततः