गोप्रचारं खनेद्यस्तु वाहयेद्वा कथंचन
स्वर्गं नयति गोचर्म सम्यग्दत्तं सदक्षिणम् 2.3.2.
तावत्कालं वसेत्स्वर्गे विष्णुलोकान्न तच्च्युतिः
महायागावसाने च यो न तर्पयति द्विजान्
वृषोत्सर्गा वसाने तु प्रदद्याद्यो महीं द्विजाः
तत्र मानं पृथक्चैव शृणुतात्र समागताः
गवां शतं वृषश्चैको यत्र तिष्ठत्ययंत्रितः
गोप्रचारस्य देवस्य ब्राह्मणस्य च भो द्विजाः
मण्डपं पूजयेत्सूर्यं वासुदेवसमन्वितम्
देहि मेति च मन्त्रेण विन्यसेन्मंडपोपरि
समुत्सृजेज्जपेत्पश्चात्सौरं सूक्तं च वैष्णवम्
दिक्पालान्संन्यसेत्स्वासु स्वासु दिक्षु विचक्षणः 2.3.2.
धर्मसंस्थापनार्थाय आत्मनो विभवाय च
भो वह्ने मेषवाहस्त्वं चतुःशृंगविराजित
यम त्वं दक्षिणाशेश महामहिषवाहन
मञ्चस्थो राक्षसेन्द्रस्त्वं खड्गपाणिर्महाबलः
वारिराट् ध्वजहस्तोऽसि पवनो मृगवाहनः
धनाध्यक्षो गदाहस्तः पिंगाक्षो नरवाहनः
आदिदेवोसि देवानां कर्ता हर्ता महेश्वरः
अनंतो नागराजो यो धरामुद्धृत्य तिष्ठति
चतुर्णामेव वर्णानां स्थित्यर्थं मृगपक्षिणाम्
भग्ने स्तम्भे तृणे जीर्णे पुनस्तृणप्रदापने 2.3.2.
घातापायादिदोषेण म्रियंते यदि जन्तवः
मानुषाः पशवो ये च निवसन्तीह मण्डपे
ततस्त्रिगुणसूत्रेण सुत्रामाणेति वै ऋचा
उपानहौ तथा छत्रमाचार्याय निवेदयेत्
दीनेभ्यश्च पृथग्दद्याद्गृहं विप्रपुरःसरम्
एवं प्रपायां विज्ञेयो विशेषो वरुणं व्रजेत्
स्थालीपाकविधानेन प्रकुर्याद्देशिकोत्तमः
ऋत्विजे ताम्रपात्रं च जलपूर्णं च धान्यकम्