पोटिकां च ततः शय्यां दद्यादिष्टार्थसिद्धये
तेषां पार्श्वद्वयेप्येवमारामे च पृथक्पृथक् ।। 2.3.1.
गोप्रचारवैशिष्ट्यवर्णनम् यजेद्विष्णुं सल क्ष्मीकमुपचारैः पृथग्विधैः
उपचारैश्च ब्रह्माणं रुद्रं चैव करालिकाम्
होमं चैव यथा विष्णोः कमलायास्त्रयंत्रयम्
एकैकामाहुतिं दद्याल्लाजादिषु पृथक्पृथक्
त्रिहस्तमात्त्रं रचितं कुर्यान्नागफणान्वितम्
लाजासंयुक्तविधिना विश्वेषामिति सञ्जपन्
भौमायेति चतुर्थं च ततो यूपं निवेदयेत्
संपूज्य रुद्रं पञ्चांगं धान्यं वस्त्रं च दक्षिणाम्
गोप्रचारे च शैलेयं यूपं हस्तद्वयान्वितम्
यूपं च चैत्रवृक्षं च कुण्डलीमठपीठिकाम् 2.3.2.
चतुर्हस्तप्रमाणेन शतकुण्डेन संमितम्
भूमौ रत्नं च संस्थाप्य इमं मन्त्रमुदाहरेत्
गोभ्य एषा मया भूमिः सम्प्रदत्ता शुभार्थिना
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
सेतुं कृत्वा दक्षिणतः पश्चिमेंगाररोपणम्
ततः सहस्रधारां च शस्येन परिपूरिताम्
नगरग्रामपूर्वे वा उत्तरे पश्चिमेपि वा
गोप्रचारं खनेद्यस्तु वाहयेद्वा कथंचन
स्वर्गं नयति गोचर्म सम्यग्दत्तं सदक्षिणम् 2.3.2.
तावत्कालं वसेत्स्वर्गे विष्णुलोकान्न तच्च्युतिः
महायागावसाने च यो न तर्पयति द्विजान्
वृषोत्सर्गा वसाने तु प्रदद्याद्यो महीं द्विजाः
तत्र मानं पृथक्चैव शृणुतात्र समागताः
गवां शतं वृषश्चैको यत्र तिष्ठत्ययंत्रितः
गोप्रचारस्य देवस्य ब्राह्मणस्य च भो द्विजाः
मण्डपं पूजयेत्सूर्यं वासुदेवसमन्वितम्
देहि मेति च मन्त्रेण विन्यसेन्मंडपोपरि