सूच्या सुतीक्ष्णया कार्यं द्विपात्रे वामदक्षिणे
पिष्टकं च पृथग्दद्यात्कुमारीबालकेषु च
प्रदद्याद्दोहकं चैव वृक्षाणां विधिपूर्वकम् 2.3.1.
वृक्षाग्रात्पतितस्यापि आरोहात्पतितस्य च
धेनुं सुवर्णं धान्यं च आचार्याय प्रदक्षिणम्
धान्यं च ब्रह्मणे दद्याद्घृतभोज्यं सशर्करम्
अधिकलशं समानीय स्नानं कुर्याद्विधानतः
सर्वौषध्युदकं प्रोक्ष्य त्रिवारं क्षीरधारया
गृहं व्रजेत्ततो विप्रैः कुर्याच्चैव गृहार्चनम्
बलं कामं हयग्रीवं माधवं पुरुषोत्तमम्
दधिभक्तं बलिं दद्यात्पञ्चगव्यसमुद्भवम्
शुद्धकांञ्चनवर्णाभां वराभयकरां शुभाम्
स्योना पृथिवीति मन्त्रेण पूजयित्वा यथाविधि 2.3.1.
वामतो विश्वकर्माणं शुद्धस्फटिकसंनिभम्
विश्वन्निति ऋचा तं च बलिं च मधु पिष्टकम्
एकैकं होमयेत्पश्चा त्पृथिवीहोमकर्मणि
समुत्सृज्य ततः सेतुमिमं मन्त्रं पठेत्ततः
ये चात्र प्राणिनः संति रक्षां कुर्वति सेतवः
गर्तं कृत्वा पञ्चरत्नं संस्थाप्यं तदनन्तरम्
आचार्याय ततो दद्यादिष्टां च वरदक्षिणाम्
पोटिकां च ततः शय्यां दद्यादिष्टार्थसिद्धये
तेषां पार्श्वद्वयेप्येवमारामे च पृथक्पृथक् ।। 2.3.1.
गोप्रचारवैशिष्ट्यवर्णनम् यजेद्विष्णुं सल क्ष्मीकमुपचारैः पृथग्विधैः
उपचारैश्च ब्रह्माणं रुद्रं चैव करालिकाम्
होमं चैव यथा विष्णोः कमलायास्त्रयंत्रयम्
एकैकामाहुतिं दद्याल्लाजादिषु पृथक्पृथक्
त्रिहस्तमात्त्रं रचितं कुर्यान्नागफणान्वितम्
लाजासंयुक्तविधिना विश्वेषामिति सञ्जपन्
भौमायेति चतुर्थं च ततो यूपं निवेदयेत्
संपूज्य रुद्रं पञ्चांगं धान्यं वस्त्रं च दक्षिणाम्