सिद्धकिन्नरयक्षाद्यैः स्तूयमानं सुरासुरैः
दले संकर्षणादींश्च विमलाद्याश्च नायिकाः
घृतप्रदीपो देवस्य गुग्गुलुः सरलस्तथा 2.3.1.
ध्यायेत्सोमं कर्णिकायां दक्षिणे पद्मसंस्थितम्
प्रशस्यं देवयक्षाणां वरदाभयहस्तकम्
पूजयेच्च निशानाथं घृतभक्तं निवेदयेत्
ईशानं तत्पुरुषं चैव वायुं पूर्वादिदिक्ष्वपि
द्विभुजं शुक्लवर्णं च महादेवं प्रपूजयेत्
वासुदेवाय देवाय जुहुयादष्ट आहुतीः
शिवाय परमान्नेन जुहुयादाहुतिद्वयम्
ब्रह्मणो वरुणस्याथ एकैकामाहुतिं तथा
एकैकामाहुतिं दद्यादाज्येन च यथाक्रम्
अतिरक्ता पद्मरागा वह्निजिह्वा प्रकीर्तिताः 2.3.1.
यकारस्थाश्च विज्ञेया अष्टस्वरविभूषिताः
एकैकामाहुतिं दद्याद्दत्त्वा चैव समाहितः
स्थालीपाकेन जुहुयान्मधुक्षीरयवान्वितम्
यावकैर्गंधपुष्पाद्यैरर्चित्वा सपरावकम्
जापको विधिनानेन प्रजपेत्तत्र रुद्धकम्
ततः संमृज्य विधिना स्नापयित्वा यथाविधि
ध्वजानारोप्य प्रांतेषु दद्यात्सोमं वनस्पतिम्
सूच्या सुतीक्ष्णया कार्यं द्विपात्रे वामदक्षिणे
पिष्टकं च पृथग्दद्यात्कुमारीबालकेषु च
प्रदद्याद्दोहकं चैव वृक्षाणां विधिपूर्वकम् 2.3.1.
वृक्षाग्रात्पतितस्यापि आरोहात्पतितस्य च
धेनुं सुवर्णं धान्यं च आचार्याय प्रदक्षिणम्
धान्यं च ब्रह्मणे दद्याद्घृतभोज्यं सशर्करम्
अधिकलशं समानीय स्नानं कुर्याद्विधानतः
सर्वौषध्युदकं प्रोक्ष्य त्रिवारं क्षीरधारया
गृहं व्रजेत्ततो विप्रैः कुर्याच्चैव गृहार्चनम्
बलं कामं हयग्रीवं माधवं पुरुषोत्तमम्