तूर्यघोषेण महता ततो विप्रपुरःसरम्
ततो गृहार्चनं कृत्वा ब्राह्मणानथ भोजयेत्
नारायणं ततो दद्याद्विप्रमुद्दिश्य भक्तितः
उपवनादिप्रतिष्ठावर्णनम् सूत उवाच आरामादौ विशेषो यो वक्ष्यतेऽत्र मयाधुना
ऐशान्यां कलशे देवं तत्र नाथं प्रपूजयेत्
स्वदिक्षु द्वारदेशे तु पश्चिमद्वारदेशयोः
वरुणं चोदकुम्भस्थं भूतशाखासु शोभनम्
पूर्वगं मन्दरं स्थाप्य तोरणोपरि सत्तमाः
कर्णिकायां वासुदेवं शुद्धस्फटिकसन्निभम्
श्रीवत्सकौस्तुभोरस्कं मुकुटाद्यैरलंकृतम्
सिद्धकिन्नरयक्षाद्यैः स्तूयमानं सुरासुरैः
दले संकर्षणादींश्च विमलाद्याश्च नायिकाः
घृतप्रदीपो देवस्य गुग्गुलुः सरलस्तथा 2.3.1.
ध्यायेत्सोमं कर्णिकायां दक्षिणे पद्मसंस्थितम्
प्रशस्यं देवयक्षाणां वरदाभयहस्तकम्
पूजयेच्च निशानाथं घृतभक्तं निवेदयेत्
ईशानं तत्पुरुषं चैव वायुं पूर्वादिदिक्ष्वपि
द्विभुजं शुक्लवर्णं च महादेवं प्रपूजयेत्
वासुदेवाय देवाय जुहुयादष्ट आहुतीः
शिवाय परमान्नेन जुहुयादाहुतिद्वयम्
ब्रह्मणो वरुणस्याथ एकैकामाहुतिं तथा
एकैकामाहुतिं दद्यादाज्येन च यथाक्रम्
अतिरक्ता पद्मरागा वह्निजिह्वा प्रकीर्तिताः 2.3.1.
यकारस्थाश्च विज्ञेया अष्टस्वरविभूषिताः
एकैकामाहुतिं दद्याद्दत्त्वा चैव समाहितः
स्थालीपाकेन जुहुयान्मधुक्षीरयवान्वितम्
यावकैर्गंधपुष्पाद्यैरर्चित्वा सपरावकम्
जापको विधिनानेन प्रजपेत्तत्र रुद्धकम्
ततः संमृज्य विधिना स्नापयित्वा यथाविधि
ध्वजानारोप्य प्रांतेषु दद्यात्सोमं वनस्पतिम्