वरुणात्मकं ततो ध्यात्वा ततो नीराजनं पठेत्
धर्मो वंशं ततः कुर्यादुत्सर्गांते विधीयते
सर्वसत्त्वोपकाराय समुत्सृजेत्तु वै जनम्
वरुणं च ततो देवं पुष्करिण्यां च निक्षिपेत् ।। 2.2.20.
जले वरुणमन्त्रेण मत्स्यादीन्प्रक्षिपेत्ततः
शैवालं प्रक्षिपेच्चैव दक्षिणां तदनंतरम्
ऋत्विग्भ्यश्च पृथग्दद्याद्यथावित्तानुसारतः
नित्यं समाप्य विधिवद्दद्यात्पूर्णाहुतिं पुनः
ततः प्रदक्षिणावर्तं संवेष्ट्य क्षीरधारया
शताधिधारया शक्त्या त्रिवारं ब्राह्मणैः सह
तूर्यघोषेण महता ततो विप्रपुरःसरम्
ततो गृहार्चनं कृत्वा ब्राह्मणानथ भोजयेत्
नारायणं ततो दद्याद्विप्रमुद्दिश्य भक्तितः
उपवनादिप्रतिष्ठावर्णनम् सूत उवाच आरामादौ विशेषो यो वक्ष्यतेऽत्र मयाधुना
ऐशान्यां कलशे देवं तत्र नाथं प्रपूजयेत्
स्वदिक्षु द्वारदेशे तु पश्चिमद्वारदेशयोः
वरुणं चोदकुम्भस्थं भूतशाखासु शोभनम्
पूर्वगं मन्दरं स्थाप्य तोरणोपरि सत्तमाः
कर्णिकायां वासुदेवं शुद्धस्फटिकसन्निभम्
श्रीवत्सकौस्तुभोरस्कं मुकुटाद्यैरलंकृतम्
सिद्धकिन्नरयक्षाद्यैः स्तूयमानं सुरासुरैः
दले संकर्षणादींश्च विमलाद्याश्च नायिकाः
घृतप्रदीपो देवस्य गुग्गुलुः सरलस्तथा 2.3.1.
ध्यायेत्सोमं कर्णिकायां दक्षिणे पद्मसंस्थितम्
प्रशस्यं देवयक्षाणां वरदाभयहस्तकम्
पूजयेच्च निशानाथं घृतभक्तं निवेदयेत्
ईशानं तत्पुरुषं चैव वायुं पूर्वादिदिक्ष्वपि
द्विभुजं शुक्लवर्णं च महादेवं प्रपूजयेत्
वासुदेवाय देवाय जुहुयादष्ट आहुतीः
शिवाय परमान्नेन जुहुयादाहुतिद्वयम्