कल्पादौ सृजते तात अन्ते कल्पस्य संहरेत् । दिनं तस्येह यत्तात कल्पान्तमिति कथ्यते
कालसंख्यां ततस्तस्य कल्पस्य शृणु भारत । निमेषा दश चाष्टौ च अक्ष्णः काष्ठा निगद्यते
त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलाः स्मृताः । मुहूर्तमथ मौहूर्ता वदन्ति द्वादश क्षणम्
त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः । मासस्त्रिंशदहोरात्रं द्वौ द्वौ मासावृतुः स्मृतः
ऋतुत्रयमप्ययनमयने द्वे तु वत्सरः । अहोरात्रे विभजते सूर्यो मानुषदैविके
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः । पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः
कर्म चेष्टास्वहः कृष्णः मुक्तः स्वप्नाय शर्वरी । दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् । ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं महीपते
एकैकशो युगानां तु क्रमशस्तन्तिबोध मे । चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः । त्रेता त्रीणि सहस्राणि वर्षाणि च विदुर्बुधाः