ध्वजं च धनुनागेति गंधद्वारेति गोमयम्
सिंधोसीति च सिंदूरं स्वभावे रक्तकं तथा
धाराभिः शतपुष्पाभिर्गन्धतोयादिभिस्तथा
रोचना कुंकुमैर्वापि संलिख्य तत्र पूजयेत् 2.2.20.
मंडपस्योत्तरेदेशे शय्यां निर्माय शोभनाम्
अंगुष्ठमात्रं संस्थाप्य ततः पुष्करिणीमपि
' अंगुष्ठमात्रं सम्पूज्य वरुणाय निवेदयेत्
सुवर्णं राजतं चैव धान्यं वासो वराटकम्
नागयष्टिं समादाय किंचिदुत्तरगां तथा
ततोक्षताय भौमाय कृत्वा चाज्याहुतित्रयम्
क्षीरं च पिष्टकं चैव शष्कुलीगन्धपुष्पकम्
आचार्यो यजमानेन सुसन्नद्धैश्च भृत्यकैः
अवाप्य च ततो यष्टिं स्थिरो भवति वैरिवा
यज्ञप्रियासि देवि त्वं सर्वविघ्नविनाशिनी 2.2.20.
इत्यामंत्र्य यजेच्चैव गायत्रीं च पठेत्ततः
पुनरागत्य तां वेदिं निर्मथ्य वरुणं प्रभुम्
अनिष्टं मार्जयेन्नागानुद्धृत्य कलशं तथा
वरुणं पुष्करिण्यां च जलमध्ये विनिक्षिपेत्
निर्मन्थेत्तत्र यो नागः स्थापयेत्तु यथाविधि
अत्र स्वामी भवान्नाग रक्षणीयस्त्वया जनः
संपूज्य गंधपुष्पाद्यैः पुरतो निक्षिपेद्दिशि
सन्निरुद्ध्याशु संस्थाप्य बलिं दद्या द्विधानतः
एवं भूरिति मंत्रै स्वैः स्वैरेव तु पृथग्विधैः
पूर्वभागे पुष्करिण्यां हरिताभं सवज्रकम् 2.2.20.
त्रातारमिति मंत्रेण अग्नौ विन्यस्य मौक्तिकम्
वैश्वानरेण मन्त्रेण पठल्लाँजाहुतिं पुनः
शालिबीजेन सहितं कया न इति मंत्रकम्
उत्तरे रोचनां कन्यां तथैव गौरसर्षपम्
विन्यस्य तेन मंत्रेण प्रदद्यादाहुतिं पुनः
संस्थाप्याज्याहुतिं दद्यात्तमीशान ऋचा पुनः