चतुर्विधं तथा श्वेतं सर्वालंकारसंयुतम्
पिण्याकं नागजिह्वां च तथा सर्जरसं दधि
पद्मं टंकं दधानं च भुजाभ्यां नागसत्तमम्
कर्कोटकं च द्विभुजं पीतवस्त्रधरं यजेत् 2.2.20.
पीतवस्त्रं च कुलिशं याजयेत्तु चतुर्भुजम्
शर्करा कुष्ठकं चैव बलिस्तस्य प्रकी र्तितः
पद्मासनस्थं पद्माभ्यां हस्ताभ्यां च वरं विभुम्
घटौदनं भृंगराजं पद्मं च वलयस्तयोः
कृत्वा आज्यस्य संस्कारं वारुणं श्रपयेच्चरुम्
एकैकामाहुतिं दद्याद्ग्रहाणां च त्रयंत्रयम्
पलाशसमिधं पश्चात्प्रतिष्ठामाहुतित्रयम्
मध्वाज्यगुडमिश्राभिर्लाजाभिर्जुहुयात्पृथक्
स्थालीपाकस्य जुहुयादेकैकामाहुतिं पुनः
वास्तोष्पतय इति मंत्रेण पञ्चगव्यो भवेत्ततः 2.2.20.
वृषान्न इति मंत्रेण कया न इति वै पुनः
इमा रुद्रेति मंत्रेण श्रीश्चेति ऋचा पुनः
तद्विष्णोरिति मंत्रेण तथा पुष्पोदकेन च
पञ्चरक्तेन रक्तानां मृदा कैश्च कुशोदकैः
तैजसैर्मार्त्तिकैश्चापि अष्टाविंशतिभिस्तथा
अन्नं लिप्य ततो मृद्भिर्दद्याच्चैव यथाक्रमम्
ध्वजं च धनुनागेति गंधद्वारेति गोमयम्
सिंधोसीति च सिंदूरं स्वभावे रक्तकं तथा
धाराभिः शतपुष्पाभिर्गन्धतोयादिभिस्तथा
रोचना कुंकुमैर्वापि संलिख्य तत्र पूजयेत् 2.2.20.
मंडपस्योत्तरेदेशे शय्यां निर्माय शोभनाम्
अंगुष्ठमात्रं संस्थाप्य ततः पुष्करिणीमपि
' अंगुष्ठमात्रं सम्पूज्य वरुणाय निवेदयेत्
सुवर्णं राजतं चैव धान्यं वासो वराटकम्
नागयष्टिं समादाय किंचिदुत्तरगां तथा
ततोक्षताय भौमाय कृत्वा चाज्याहुतित्रयम्