मध्ये आधारशक्त्यादीन्वरुणं मध्यतो यजेत्
पार्श्वद्वये कर्णिकाया ब्रह्माणं चाप्यनन्तकम्
इन्द्राभिषेकमंत्रस्य वाद्यं गांधाररागकम्
घनकंटकमस्यापि वाच्यं रागं तु गुर्जरम् 2.2.20.
नाटकाख्यं तथा रागं वरुणस्यापि मे शृणु
ईशस्य नंदिघोषाख्यं वाद्यं रागोथ कामदः
रागो देवी वसंतश्च अनंतस्य निबोध मे
सोमे घोषे भवेद्वाद्यं जलेशस्य महात्मनः
स्वैः स्वैर्धर्मैश्च संगृह्य दक्षिणे पृथिवीं यजेत्
मण्डपस्योत्तरे भागे महादेवं प्रपूजयेत्
( महादेवं द्विभुजं डमरुशूलधरमुमासहितं ध्यात्वा ) गंधपुष्पादिभिर्भक्त्या भूतानि परितो यजेत्
वेतालाश्च पिशाचाश्च राक्षसाश्च सरी सृपाः
मधुयुक्तं पायसान्नं वरुणाय निवेदयेत्
पीतं शुक्लं तथा चित्रं श्वेतमन्नं यथाक्रमम् 2.2.20.
क्षीरौदनं ग्रहेशाय शुक्लान्नं शशिने स्मृतम्
पीतमन्नं देवगुरोः शुक्रस्य सिततंदुलम्
धूम्रवर्णं तु ताम्रं तु भौमस्य क्षीरषाष्टिकम्
एवं बलिं विधायाथ अग्रे कुंभं निवेशयेत्
बह्वंगुलकं विन्यस्य विन्यस्य कलशोपरि
शरावं च पुनर्दद्याद्वर्धनीं प्रतिपूजयेत्
सूक्तं यजेद्यथाशक्ति शतमष्टोत्तरं जपेत्
अनंतं पूजयेत्पूर्वं मानेनांगुलमात्रकम्
राजतं वासुकिं नागं यजेत्पत्रांतरे पुनः
पंचांगुलं तोलिकया लोहं कर्कोटकं पुनः 2.2.20.
शंखपालं कुशमयमर्धपादेन निर्मितम्
अंगुष्ठे तोलकं पश्चात्पद्मनागं पुनर्यजेत्
कुर्याच्छैलमयं सम्यग्यथावल्लक्षणान्वितम्
ध्यात्वानंतं चतुर्बाहुं शुक्लसप्तफणान्वितम्
वामोर्ध्वे तु गदापद्मं मध्यस्थाने व्यवस्थितम्
लाजैश्च तिलसंमिश्रैः क्षीरयुक्तैः पृथग्विधैः