स्वस्थाने स्थापयेद्विप्रान्मखे धर्मैर्यथाक्रमम्
यज्ञे सुवितते योसौ पूज्यते पुरुषः सदा
मखश्रेष्ठेषु सर्वेषु येन मंत्राः सुविस्तृताः
यज्ञेषु साक्षी सर्वेषु वेदवेदार्थतत्त्ववित् 2.2.20.
मांगल्यं कर्मणां नित्यं शाश्वतं ब्रह्मरूपिणम्
पालयंति दिशः सर्वा विदिशश्च तथा इमाः पातयेद्दक्षिणं जानु विकिरान्विकिरेत्ततः
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च
वेद्यावेदीति मंत्रेण पठेद्वेदिं प्रणम्य च
याजनं यजमानश्च श्रेयसा तत्र याजकः
ऐशान्यां कलशे देवं संपूज्य गण नायकम्
मंडलं चैव विष्णुर्वै द्वारकारूपमास्थितः
पूर्वादिदिक्षु कलशान्संस्थाप्य च त्रयंत्रयम्
गंगामृत्तिकया युक्ते पल्लवे संनिवेदयेत्
कलशोपरि संस्थाप्य मंदरं संप्रपूजयेत् 2.2.20.
( स्योना पृथिवीति मन्त्रस्य सुमंत ऋषिर्जगती छन्दो हरो देवता मंदरप्रीतये विनियोगः) प्रादेशमात्रलोहं तु रौप्येण गंधमादनम्
कदाचनेति मंत्रस्य सूर्य ऋषिस्त्रिष्टुप्छन्दः सूर्यो देवता गंधमादनप्रीतये विनियोगः तोलकद्वयमानेन यवानां पिष्टकोपरि
( आप्यायस्वेति मंत्रस्य कर्दम ऋषिर्जगती छन्दः शची देवता सुपार्श्वप्रीतये विनियोगः श्रीसूक्तेनैव मन्त्रेण यजेद्विजयसप्तकम्
अंबाअंबिकेति मंत्रस्य नलिन ऋषिर्गायत्री छन्दः शंभुर्देवता जय प्रीतये विनियोगः
( गायत्र्या विश्वामित्र ऋषिः सविता देवता विजयप्रीतये विनियोगः
(उत्तरे युग्मकलशे मनोन्ना इति मंत्रस्य अंतक ऋषिर्बृहती छंदो निर्ऋतिर्देवता भूतप्रीतये विनियोगः विधायार्घ्यादिकं चैव धर्मादिमंडले यजेत्
मध्ये आधारशक्त्यादीन्वरुणं मध्यतो यजेत्
पार्श्वद्वये कर्णिकाया ब्रह्माणं चाप्यनन्तकम्
इन्द्राभिषेकमंत्रस्य वाद्यं गांधाररागकम्
घनकंटकमस्यापि वाच्यं रागं तु गुर्जरम् 2.2.20.
नाटकाख्यं तथा रागं वरुणस्यापि मे शृणु
ईशस्य नंदिघोषाख्यं वाद्यं रागोथ कामदः
रागो देवी वसंतश्च अनंतस्य निबोध मे
सोमे घोषे भवेद्वाद्यं जलेशस्य महात्मनः
स्वैः स्वैर्धर्मैश्च संगृह्य दक्षिणे पृथिवीं यजेत्
मण्डपस्योत्तरे भागे महादेवं प्रपूजयेत्