पंडितांश्च समाहूय मुहूर्तं पृष्टवान्मुदा
लक्षणं वचनं प्राह महीराजमनुत्तमम्
कृष्णांशस्तस्य योग्योऽयं देशराजसुतोऽवरः
तच्छ्रुत्वा लक्षणो वीरः पूर्वे बर्हिष्मतीं प्रति
उत्तरे नैमिषारण्यं स्वकीयं राष्ट्रमादधत्
नागोत्सवे च भूपाल पंचम्यां च नभस्सिते
इति श्रुत्वा स कृष्णांशो वाक्छरेण प्रपीडितः। अभयं भुजयोः शीघ्रं गृहीत्वा सोऽयुधद्बली
क्षणमात्रं रणं कृत्वा भूमिमध्ये तमक्षिपत् 3.3.10.
मूर्च्छितं स्वसुतं ज्ञात्वा खड्गहस्तो महीपतिः
रुषाविष्टांश्च ताञ्ज्ञात्वा कृष्णांशो बलवत्तरः
पराजिते मल्लबले खड्गहस्तो महीपतिः
ज्ञात्वा तमीदृशं भूपं वारयामास भूपतिः
नवाब्दांगे च कृष्णांशे चाह्लादाद्याः कुमारकाः
नमस्ते तात भूपाग्र्य सर्वानंदप्रदायक
इति श्रुत्वा वचस्तेषां तथेत्युक्त्वा महीपतिः
ददौ तेभ्यो मुदा युक्तो हरिणीगर्भसंभवान् त्वन्मुखेन श्रुतं सूत हरिणी वडवा यथा
भीष्मसिंहाय संप्राप्ता शक्राद्देवेशतो मुने
दिव्यांगा भूषणापन्ना नभस्सलिलगामिनः सूत उवाच 3.3.10.
सेवनं भास्करस्यैव कृतं च द्वादशाब्दिकम्
प्राह देव नमस्तुभ्यं यदि देयो वरस्त्वया
तथेत्युक्त्वा रविः साक्षाद्ददौ तस्मै पपिहकम्
अतः पपीहको नाम लोकपालनकर्मवान्
बुभुजे स्मरवेगेन तस्यां जातास्तुरंगमाः
तदा जातौ हरिण्याश्च मेघपुष्पबलाहकौ
दिव्यांगास्ते हि चत्वारः पूर्वं जाता महाबलाः
इति ते कथितं विप्र शृणु तत्र कथां शुभाम्
देवसिंहाय बलिने ददौ चाश्वं मनोरथम् 3.3.10.
ब्रह्मानंदाय पुत्राय प्रददौ हरिनागरम्
हरिणीं वडवां शुभ्रां बलखानिः समारुहत्
आह्लादेनैव शार्दूलो हतः प्राणिभयंकरः