विवाहविधिना सर्वं कार्यं चैवाधिवासनम्
सर्वमेव प्रयुंजीत तडागादिषु पण्डितः
संगृह्य गंधपुष्पाद्यैर्धूपैर्दीपैः सुशोभनैः
वृद्धिश्राद्धं ततः कुर्यान्मातृपूजापुरःसरम् 2.2.20.
शृणुयात्पश्चिमे भागे मंडपस्य समीपतः
अथ वा तत्र देशीयं गुरुं वा श्रोत्रियोद्भवम्
वैतानकल्पे संपन्नं शक्तिकल्पपरायणम्
पत्नीहीनमपुत्रं च श्यावदंतमदंतकम्
अप्रधानेषु यज्ञेषु दानयज्ञेषु सत्तमाः
कुशप्रतिकृतौ चापि ततः स्वर्गं स गच्छति
अयाज्ययाजनोद्भूतं पल्लवं व्यवहारके
देवस्वं ब्राह्मणस्वं च लोहविक्रयणं धनम्
निंदितानि पुराणेषु यत्कृतं तत्र तत्फलम् न दद्यात्तस्य दानं च यावन्नैव समापयेत्
ब्रह्मन्नाचार्यमुख्योसि संसारात्त्राहि मां विभो 2.2.20.
चिरं मे शाश्वती कीर्तिर्यावल्लोकाश्चराचराः
त्वमादिः सर्वभूतानां संसारार्णवतारक
ब्रह्मासनसमुद्भूतं प्रकाशितदिगंतरम्
प्रफुल्लकमलोद्भासि भास्वरांबरभूषित
ज्वलद्वैश्वानरप्रख्य धूमश्यामालितानन
ततस्तूर्यादिघोषेण पुरस्कृत्य द्विजोत्तमान्
स्वस्थाने स्थापयेद्विप्रान्मखे धर्मैर्यथाक्रमम्
यज्ञे सुवितते योसौ पूज्यते पुरुषः सदा
मखश्रेष्ठेषु सर्वेषु येन मंत्राः सुविस्तृताः
यज्ञेषु साक्षी सर्वेषु वेदवेदार्थतत्त्ववित् 2.2.20.
मांगल्यं कर्मणां नित्यं शाश्वतं ब्रह्मरूपिणम्
पालयंति दिशः सर्वा विदिशश्च तथा इमाः पातयेद्दक्षिणं जानु विकिरान्विकिरेत्ततः
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च
वेद्यावेदीति मंत्रेण पठेद्वेदिं प्रणम्य च
याजनं यजमानश्च श्रेयसा तत्र याजकः
ऐशान्यां कलशे देवं संपूज्य गण नायकम्