ततो जलमातृभ्यो नम इति जलमातॄः प्रपूजयेत्
तेषामाप्यायनायैतज्जलमुत्सृज्यते मया
शिवाय सर्वभूतानां सदा पाहि जलाशयम्
जलं विश्वोपकाराय कृतमेतन्मया सदा
त्वत्प्रसादान्महाभाग नागराज नमोऽस्तु ते
तेषां दोषैर्न लिप्येऽहं स्वंस्वं गममवाप्नुयात्
आपेया मातरः संतु जगतां वृक्षयोनयः 2.2.19.
वरुणास्यासने कीर्तिं सनातन नमोस्तु ते
सुवर्णंरजतं दद्यादनड्वाहं पयस्विनीम्
वह्निपूजां पुरस्कृत्य मन्त्रेण प्राशयेत्ततः
बिंबमुद्रां पद्ममुद्रां नागमुद्रां प्रदर्शयेत्
यस्ते प्राणाञ्जपन्पश्चात्प्रकुर्यादथ चन्दनम्
ब्राह्मणान्पुरतः कृत्वा वेदघोषं समुच्चरन्
ततो गृहार्चनं कुर्याद्ब्राह्मणानां च भोजनम्
मध्यमविधानवर्णनम् मध्यमे मध्यमफलं कनिष्ठे तु कनिष्ठकम्
अधुना मध्यमं वक्ष्ये विधिं शास्त्रानुसारतः
सद्योधिवासकल्पेन यूपादीनधिवास्य च
मुहूर्ते कलशं स्थाप्य संगृह्य गणनायकम्
शन्नो देव्यास्ततः पश्चाद्गन्धद्वारेति गंधकम्
काण्डादिति च मन्त्रेण ततो धूपं निवेदयेत्
विवाहविधिना सर्वं कार्यं चैवाधिवासनम्
सर्वमेव प्रयुंजीत तडागादिषु पण्डितः
संगृह्य गंधपुष्पाद्यैर्धूपैर्दीपैः सुशोभनैः
वृद्धिश्राद्धं ततः कुर्यान्मातृपूजापुरःसरम् 2.2.20.
शृणुयात्पश्चिमे भागे मंडपस्य समीपतः
अथ वा तत्र देशीयं गुरुं वा श्रोत्रियोद्भवम्
वैतानकल्पे संपन्नं शक्तिकल्पपरायणम्
पत्नीहीनमपुत्रं च श्यावदंतमदंतकम्
अप्रधानेषु यज्ञेषु दानयज्ञेषु सत्तमाः
कुशप्रतिकृतौ चापि ततः स्वर्गं स गच्छति