ध्रुवप्रतिकृतैर्मंत्रैरष्टभिश्च यथाक्रमम्
ततो नारायणसूक्तेन देवं नारायणं व्रजेत्
तत आचमनीयं च वस्त्रयुग्मं निवेदयेत्
पृथक्पृथक्ततो दद्यात्तावंत्येनापि भो द्विजाः सर्ववर्णप्रदे देव वाससी ते विनिर्मिते
शरीरं ते न जानामि चेष्टां नैव च नैव च
अष्टोत्तरशतान्दीपान्परितः स्थापयेत्क्रमात्
त्वं सूर्य्यचन्द्रज्योतींषि विषादस्त्वं तथैव च 2.2.19.
प्रदक्षिणं ततः कुर्यात्पञ्चधा सप्तधाथ वा
वनस्पतिरसो दिव्यो गंधाढ्यः सुरभिः शुचिः
अलंकारैश्च गंधैश्च पीतवस्त्रैस्तथैव च दद्यात्पञ्चाञ्जलिं पश्चाद्विष्णुसूक्तं पुनर्जपेत्
ततः सुशोभने स्थाने वेदीं निर्माय देशिकः
विवाहोक्तेन विधिना कुर्यान्निर्मंछनादिकम्
चामरं व्यजनं छत्रं कांस्यं लोहं तथैव च
चतुष्कोणां च सुषमां द्व्यंगुष्ठपरिमंडलाम्
अथ वा स्वर्णपत्रे च कुंकुमेन तले लिखेत्
कारयेच्चतुरस्रं च पीठोपरि न्यसेद्बुधः
अशक्तेन तथैवैककाष्ठे वा पिप्पलच्छदे 2.2.19.
प्राणप्रतिष्ठां कुर्यात्तु वरुणाय निवेदयेत्
अशोकः खदिरः शालो ह्यश्वत्थो बिल्वकस्तथा
एषामेव काष्ठयूपं यजमानप्रमाणकम्
यूप रक्षेति मंत्रेण खनित्वा च प्रदापयेत्
तडागस्य तथैशान्यां तथा प्रासादकस्य च
नौका गत्वा ततः पश्चाद्यूपमादाय वाग्यतः
गंतव्यं प्रकल्प्य तत्रैव आप्यायस्वेति वै ऋचा
अंगदाय स्वाहेति भौमाय नम इत्यतः
कूर्माय नम इत्युक्त्वा पृथिव्यै नम इत्युत
पञ्चरत्नेन गन्धेन शंखेनार्घ्यं प्रदापयेत् 2.2.19.
कल्पयेद्रोपयेत्तत्र हस्तं दत्त्वा पठेदिदम्
चक्रं सदर्पणं दद्यान्नागदंडशिरो गतः
एवं चक्रं पूजयित्वा शूलं नागांश्च पूजयेत्