ब्रह्मणा सहितः शेषो दिक्पालाः पातु ते सदा
बुद्धिर्लज्जा वपुः शांतिस्तुष्टिः कांतिश्च मातरः
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः
देवदानवगंधर्वा यक्षराक्षसपन्नगाः
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः
औषधानि च रत्नानि कालस्यावयवाश्च ये
एते त्वामभिषिंचंतु सर्वकामार्थसिद्धये 2.2.19.
गवामष्टोत्तरशतं तदर्धं चाथ विंशतिम्
ततः प्रभाते विमले जले समृवतारयेत्
सामगाय ततो दद्यात्सुवर्णदक्षिणान्विताम्
अच्छेवतेन मन्त्रेण गायत्र्या तदनन्तरम्
पर्वताग्रमृदा तोयनागवल्मीकजातया
पुष्पोदकेन शंखेन तथा रत्नोदकेन च
सुगंधेन त्रिशीतेन विलिप्य च समाहितः
माल्यवस्त्रैरलंकृत्य पूजयेद्गन्धचन्दनैः
पुनस्त्वादिति मंत्रेण पुनः पुष्पं समुत्सृजेत्
कांस्यचक्रस्य मानं तु ऊर्ध्वं यद्द्वादशांगुलम् 2.2.19.
अंगुष्ठहीने लोहस्य तत्र शूलं न कारयेत्
समुत्सृजेच्च प्रासादं तडागं च विशेषतः समुत्सृजेत्ततः पश्चाद्वाक्यमेतदुरीयेत्
ओमित्यादिश्रीकृष्णद्वैपायनाभिधान वेदव्यासप्रणीत भविष्यपुराणोक्त फलप्रप्तिकामश्चतुष्कोणाद्यवच्छिन्नमत्कारितपुष्करिणीजलमेतदूर्जितं गंधपुष्पाद्यर्चितं वरुणदैवतं सर्वसत्त्वेभ्यः स्नानावगाहनार्थमहमुत्सृजे
ततो वरुणसूक्तेन वरुणं नागसंयुतम्
पूजयेद्वरुणं देवमर्घ्यं दद्याद्विशेषतः
श्वेताश्वसुरसंभूतं श्रीश्च तेति च संजपन्
तद्विष्णोरिति मंत्रेण कुशमूलेन स्थापयेत्
गायत्र्या स्नापयेद्देवं रत्नतोयेन साधकः
दधिक्राव्णेति दध्ना च मधुवातेति वै मधु
( वरुणोत्तमिति मंत्रस्य नारायण ऋषिः गायत्री छंदो वरुणो देवता वरुणप्रीतये विनियोगः आप्यायस्वेति मंत्रस्य पर्वत ऋषिः उष्णिक्छन्दः सरस्वती देवता वरुणप्रीतये चतुष्पथमृदा स्नाने विनियोगः कया न इति मंत्रस्य वसिष्ठ ऋषिरनुष्टुप्छन्दः सोमो देवता वरुणप्रीतये नागगंधस्नाने विनियोगः सरस्वत्यै भैषज्येनेति मंत्रस्य वामदेव ऋषिः पंक्तिश्छंदो विष्णुर्देवता वरुणप्रीतये विनियोगः अग्न आयाहीति मंत्रस्य जनार्दन ऋषिः जगतीछन्द ऐन्द्री देवता वरुणप्रीतये विनियोगः पश्चान्नीराजनं कुर्यात्पञ्चघोषपुरःसरम् ।। 2.2.19.
शिरीषपुष्पसंभूतं दर्पणं कास्यसंभवम् कृष्णां गां गोमयं वापि स्वस्तिकं शंखमेव च
कारयेत्पदकं वापि यवगोधूमकस्य वा श्रीरसं पुष्पसंभूतं दर्पणं कांस्यसंभवम्
नन्द्यावर्ते मलयजे ततो निर्मलयेत्सुधीः