पश्चिमे यस्य यागस्य दुर्गायाश्चोत्तरे दिशि !
विष्ण्वादिदेवतानां च अग्रकुंडे विधीयते द्वितीये पूजनं कुर्याद्धोमं कुर्याद्यथाविधि
बलिदानं तृतीये तु चतुर्थीकं चतुर्थके त्र्यहसाध्ये तृतीये तु नवाहे त्वथ पंचमे
उदङ्मुखः प्राङ्मुखो वाप्यैशान्यादि क्रमेण तु मन्त्रपूर्वं साग्निकानां निरग्नेस्तुष्टिकेन तु
त्रिकुशेन महायागे विवाहादौ द्विपत्रकम्
दिग्विदिक्षु परिस्तीर्य महायागेषु सर्वदा
अकृत्वा कर्म नित्यं च वृथा नैमित्तिकं भवेत् 2.2.19.
प्रायश्चित्ते वैश्वदेवे सायंप्रातः प्रतीषु च
मारणोच्चाटहोमेषु तथा संकल्पिताकृती १ प्रत्यवायकुले क्वापि तत्र नित्याकृतिं विना
शतार्द्धं जुहुयाद्यत्र तत्र नित्यं विवर्जयेत्
प्रजपेदिन्द्रमग्निं च सोमाय च यथाक्रमम्
भूर्भुवः स्वाहेति तथा तत्र इत्यादिपंचकम्
घृताहुतिं स्विष्टकृच्च द्विजसंस्कारकर्मसु
सर्वौषध्युदकस्नानं करिदंतोत्थमुष्णया
त्रिगन्धं च त्रिशीतं च कुशमूलस्य मृत्तिकाः
यजमानः पुरः कृत्वा दंतकाष्ठपुरःसरम्
' कृत्वा यथोक्तकालेन पूजयेत्तैलधारया 2.2.19.
स्नानमब्दैवतैर्मन्त्रैः सूक्तेन पुरुषेण तु
सुरास्त्वामभिषिंचंतु ब्रह्मन्न विष्णुमहेश्वराः
आखंडलोग्निर्भगवान्यमो वै निर्ऋतिस्तथा
ब्रह्मणा सहितः शेषो दिक्पालाः पातु ते सदा
बुद्धिर्लज्जा वपुः शांतिस्तुष्टिः कांतिश्च मातरः
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः
देवदानवगंधर्वा यक्षराक्षसपन्नगाः
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः
औषधानि च रत्नानि कालस्यावयवाश्च ये
एते त्वामभिषिंचंतु सर्वकामार्थसिद्धये 2.2.19.
गवामष्टोत्तरशतं तदर्धं चाथ विंशतिम्
ततः प्रभाते विमले जले समृवतारयेत्
सामगाय ततो दद्यात्सुवर्णदक्षिणान्विताम्