वैराजं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम्
वामदेव्यं बृहत्साम तथा चैव रथंतरम्
गायंतं ब्राह्मणा ये च पूर्वादिद्वारदेशतः
रुद्राध्यायं च पञ्चांगं रौद्र इत्यभिधीयते
ईशावेत्यादि स्वांगं च कौष्मांडं दशमं स्मृतम्
षोडशं तु विभ्राड् वृहत्सौरं सूक्तं प्रकीर्तितम्
रात्रिसूक्तं हि यज्वाग्ने रक्षोघ्नं शैवसूक्तकम्
पवमानं तु तद्विद्धि पावमानं तु षोडश तदर्द्धार्द्धं च आरामे कूपे त्वेकऋचं जपेत् ।। 2.2.19.
स्वगृह्योक्तविधानेन प्रतिकुण्डेषु होमयेत्
प्रज्वाल्याग्निं च विधिवद्धोमं कुर्यादनन्तरम्
यस्य देवस्य यो यागः प्रतिष्ठा यस्य कस्यचित्
तिलाज्यैः पायसैर्वाथ पत्रपुष्पाक्षतेन च
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे
इन्द्रेश्वरमारुतानां तिलाज्येन घृतेन वा
दिगीशानां च प्रत्येकमष्टाष्टौ च विशेषतः
समित्त्रयं पलाशस्य अथवाश्वत्थसंभवम्
शिवं प्रजा पतिं विष्णुं दुर्गां च कमलामपि
भूतेभ्योऽप्याहुतिं दद्यादेवं मासद्वयं क्रमात् 2.2.19.
विष्णुं चैव तु वायव्ये दुर्गायाश्च तथोत्तरे
एककुण्डे तु एकस्मिन्होमं कुर्याद्यथाविधि
पश्चिमे यस्य यागस्य दुर्गायाश्चोत्तरे दिशि !
विष्ण्वादिदेवतानां च अग्रकुंडे विधीयते द्वितीये पूजनं कुर्याद्धोमं कुर्याद्यथाविधि
बलिदानं तृतीये तु चतुर्थीकं चतुर्थके त्र्यहसाध्ये तृतीये तु नवाहे त्वथ पंचमे
उदङ्मुखः प्राङ्मुखो वाप्यैशान्यादि क्रमेण तु मन्त्रपूर्वं साग्निकानां निरग्नेस्तुष्टिकेन तु
त्रिकुशेन महायागे विवाहादौ द्विपत्रकम्
दिग्विदिक्षु परिस्तीर्य महायागेषु सर्वदा
अकृत्वा कर्म नित्यं च वृथा नैमित्तिकं भवेत् 2.2.19.
प्रायश्चित्ते वैश्वदेवे सायंप्रातः प्रतीषु च
मारणोच्चाटहोमेषु तथा संकल्पिताकृती १ प्रत्यवायकुले क्वापि तत्र नित्याकृतिं विना
शतार्द्धं जुहुयाद्यत्र तत्र नित्यं विवर्जयेत्