तथा मानेन मण्डूकं तां भूमिं मुनिसत्तमाः
अंगुलत्रयदीर्घं च यथा तस्याकृतिर्भवेत्
यावकैश्च विशेषेण बहुमंत्रविशारदान्
सासनौ पश्चिमे चाथ उत्तरेऽथर्वणौ स्मृतौ
स्थापयित्वा पृथक्सूत्रे सर्पं च मातरुद्दीपमेव च
जयाग्रतः पुरुषसूक्तमद्भ्यः संभूतमेव च
यज्जाग्रतश्चाग्नेश्च विष्णोरराटमेव च
thumb|300px|शुकरहस्योपनिषदेअङ्गुलिविन्यासः thumb|300px|शुकरहस्योपनिषदे अङ्गुलिविन्यासः पञ्चांगरुद्रस्य पुष्पदंत ऋषिर्गायत्री छन्दो वेदाहमेतद्बीजं श्रीश्चत्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । - ते इति शक्तिर्नमस्ते रुद्र इति नायकः परमरुद्रो देवता परम स्तुतौ विनियोगः त्र्यंबकमिति अंगुष्ठाभ्यां नमः वेदाहमिति मध्यमाभ्यां वषट् यवागूं सोम इति कनिष्ठिकाभ्यां वौषट् यज्जाग्रत इति हृदयाय नमः अद्भ्यः संभूत इति शिखायै वषट् नमस्ते रुद्र इति नेत्रत्रयाय वौषट् चतुर्दिक्षु छोटिकांदानम् ) होमे प्रवर्तमाने तु सूक्तानन्यांश्च वै जपेत् 2.2.19.
रात्रिसूक्तं च रौद्रं च पावमानं समुज्ज्वलम्
शाक्तं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम्
वैराजं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम्
वामदेव्यं बृहत्साम तथा चैव रथंतरम्
गायंतं ब्राह्मणा ये च पूर्वादिद्वारदेशतः
रुद्राध्यायं च पञ्चांगं रौद्र इत्यभिधीयते
ईशावेत्यादि स्वांगं च कौष्मांडं दशमं स्मृतम्
षोडशं तु विभ्राड् वृहत्सौरं सूक्तं प्रकीर्तितम्
रात्रिसूक्तं हि यज्वाग्ने रक्षोघ्नं शैवसूक्तकम्
पवमानं तु तद्विद्धि पावमानं तु षोडश तदर्द्धार्द्धं च आरामे कूपे त्वेकऋचं जपेत् ।। 2.2.19.
स्वगृह्योक्तविधानेन प्रतिकुण्डेषु होमयेत्
प्रज्वाल्याग्निं च विधिवद्धोमं कुर्यादनन्तरम्
यस्य देवस्य यो यागः प्रतिष्ठा यस्य कस्यचित्
तिलाज्यैः पायसैर्वाथ पत्रपुष्पाक्षतेन च
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे
इन्द्रेश्वरमारुतानां तिलाज्येन घृतेन वा
दिगीशानां च प्रत्येकमष्टाष्टौ च विशेषतः
समित्त्रयं पलाशस्य अथवाश्वत्थसंभवम्
शिवं प्रजा पतिं विष्णुं दुर्गां च कमलामपि
भूतेभ्योऽप्याहुतिं दद्यादेवं मासद्वयं क्रमात् 2.2.19.
विष्णुं चैव तु वायव्ये दुर्गायाश्च तथोत्तरे
एककुण्डे तु एकस्मिन्होमं कुर्याद्यथाविधि