ब्रह्माणं रक्तगौरागं शोण पद्मसमप्रभम्
पद्मासनस्थितं तद्वच्छ्वेतवस्त्रं चतुर्भुजम्
राजहंससमायुक्तं विमानवरसंस्थितम्
कुर्वाणमिव लोकांस्त्रीन्सिद्धगन्धर्वसेवितम्
वामपार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम्
नानाभक्ष्योपचारैश्च पूजयेद्गंधचन्दनैः
अनन्तशुक्लवर्णाभं पीतवस्त्रं चतुर्भुजम्
आधारभूतं जगतां स्वर्णयज्ञोपवीतिनम् । नानाभरणसम्पन्नं फणाशतसमन्वितम्
ॐ नमोस्त्विति मंत्रेण स्थापयेद्वरुणांतरे 2.2.19.
बिभ्रतं च श्रुतं तद्वत्तथा दंडकमण्डलू
आब्रह्मन्निति मन्त्रेण पूजयेद्गन्धचन्दनैः
वरदं डमरुधरं नागयज्ञोपवीतिनम्
कपालमालिनं देवं भुजंगाभरणान्वितम्
त्र्यंबकं चेति मन्त्रेण पूजयेन्मधुपायसैः
नानाभरणसंपन्नं पीतवस्त्रं चतुर्भुजम्
श्रिया दक्षिणतो वामे सरस्वत्या समन्वितम्
पूजयेद्गन्धपुष्पाद्यैः पायसेन घृतेन च
गजेन्द्रवदनं देवं श्वेतवस्त्रं चतुर्भुजम् 2.2.19.
मूषकस्थं महाकायं शङ्खकुन्देंदुसप्रभम्
नानाभरणसंपन्नं सर्वापत्तिविनाशनम्
उत्तप्तजांबूनदहेमसन्निभां लक्ष्मीं सरोजासनसंस्थितां शुभाम्
श्रीश्च तेति च मन्त्रेण ऐशान्यां मंडलाद्बहिः
मोदकं परमान्नं च यवक्षीरं निवेदयेत्
ततो देवीमंबिकां दिव्यरूपां ब्रह्मेंद्राद्यैः स्तूयमानां त्रिनेत्राम्
दिव्यैर्वस्त्रैर्बाहुभिः साग्रलम्बैर्दिव्यैर्माल्यैर्भूषणैः स्वैरुपेताम्
शूलं तीक्ष्णं बाणशक्ती च तीक्ष्णे खड्गं तीक्ष्णं बिभ्रतीं दक्षिणेन
शिरश्छेदादर्धजातं कबन्धं खड्गं तीक्ष्णं बिभ्रतीं दैत्यराजम्
सेन्द्रैर्देवैः स्तूयमानां सुवेणीं गंधर्वाद्यैः सिद्धसंघैश्च सेव्याम् 2.2.19.
वस्त्रैर्माल्यैर्यक्षधूपैर्वितानैर्भक्ष्यैर्भोज्यैर्मोदकैः पायसैश्च
श्यामां च पृथिवीं ध्यायेत्पंकजद्वयधारिणीम्