धर्मशास्त्रं तथैवापि सर्वश्रेष्ठं बभूव ह
करार्थं प्रेषयामास स्वसैन्यं च महावतीम्
ऊचुः परिमलं भूपं शृणु चंद्रकुलोद्भव
षडंशं करमादायास्मद्राजाय ददंति वै
अद्यप्रभृति चेद्राज्ञे तस्मै दद्यात्करं न हि
ये भूपा जयचंद्रस्य पक्षगास्ते हि तद्भयात्
इति श्रुत्वा स नृपतिस्तस्मै राज्ञे महात्मने
दशलक्षमितं द्रव्यं गृहीत्वा ते समाययुः
तदा ते लक्षशूराश्च कान्यकुब्जमुपाययुः 3.3.10.
पृथ्वीराजो महाराजो दंडं त्वत्तः समिच्छति
मद्देशे मंडलीकाश्च बहवः संति सांप्रतम्
इत्युक्त्वा वैष्णवास्त्रं तान्क्रुद्धः स च समादधत्
महीराजस्तु तच्छ्रुत्वा महद्भयमुपागमत्
नानामल्लाः समाजग्मुस्तेन राज्ञैव सत्कृताः
उर्वीयाधिपतेः पुत्रः षोडशाब्दवया बली
पितृष्वसृपतिं भूपं नत्वा नाम्नाऽभयो बली
उवाच श्यालजं प्रेम्णा भवान्युद्धविशारदः
क्व भवान्वज्रसदृशः क्व सुतोऽयं सुकोमलः 3.3.10.
इति श्रुत्वा नृपः स्यालो महीपतिरिति स्मृतः
शृणु तत्कारणं भूप यथा ज्ञातो मया शिशुः
पंडितांश्च समाहूय मुहूर्तं पृष्टवान्मुदा
लक्षणं वचनं प्राह महीराजमनुत्तमम्
कृष्णांशस्तस्य योग्योऽयं देशराजसुतोऽवरः
तच्छ्रुत्वा लक्षणो वीरः पूर्वे बर्हिष्मतीं प्रति
उत्तरे नैमिषारण्यं स्वकीयं राष्ट्रमादधत्
नागोत्सवे च भूपाल पंचम्यां च नभस्सिते
इति श्रुत्वा स कृष्णांशो वाक्छरेण प्रपीडितः। अभयं भुजयोः शीघ्रं गृहीत्वा सोऽयुधद्बली
क्षणमात्रं रणं कृत्वा भूमिमध्ये तमक्षिपत् 3.3.10.
मूर्च्छितं स्वसुतं ज्ञात्वा खड्गहस्तो महीपतिः
रुषाविष्टांश्च ताञ्ज्ञात्वा कृष्णांशो बलवत्तरः