पूजयेद्रक्तपुष्पैश्च रक्तमाल्यानुलेपनैः
नीलाञ्जनचयप्रख्यं नीलसिंहासनस्थितम्
करालवदनं भीमं ज्वाला घूर्णितलोचनम् महिषं चिंतयेद्वामे चित्रगुप्तं च दक्षिणे
अच्छीयस इति मंत्रेण स्थापयेद्यमदिग्दले राक्षसेन्द्रं महाकायं कृष्णवर्णं द्विबाहुकम्
नानाभरणसंपन्नं खङ्गहस्तं महाब लम्
एष त इति मंत्रेण नैर्ऋत्यां स्थापयेद्दिशि
धूपैः कृष्णपताकाभिर्बलिभिर्माषमिश्रितैः
द्विभुजं पाशहस्तं च सुन्दराङ्गं वरप्रदम्
सितचन्दनधूपैश्च पताकाभिर्ध्वजैरपि ।। 2.2.19.
समीरणं कुञ्जरवर्णसन्निभं मृगाधिरूढं द्विभुजं द्विनेत्रम्
नीलचन्दनवस्त्रैश्च नीलमाल्यानुलेपनैः
धूपैर्नीलपताकाभिर्बलिभिः पायसैरपि
ध्यायेद्द्विनेत्रं द्विभुजं धनेशं पीतांबरं वै नरवाहनं च
गन्धचंदनवस्त्रैश्च पीतमाल्यानुलेपनैः
धूपैः पीतपताकाभिर्बलिभिः पायसैरपि
स्निग्धकर्पूरसंकाशं तुषारकिरणप्रभम्
उत्तंगवृषभारूढं त्रिनेत्रं भस्मभूषितम्
एवं ध्यात्वा महेशानं स्थापयेदीशदिग्दले
पूजयेत्परया भक्त्या भक्ष्यभोज्यैरनेकशः 2.2.19.
सितध्वजपताकाभिर्बलिभिः पायसादिभिः
ब्रह्माणं रक्तगौरागं शोण पद्मसमप्रभम्
पद्मासनस्थितं तद्वच्छ्वेतवस्त्रं चतुर्भुजम्
राजहंससमायुक्तं विमानवरसंस्थितम्
कुर्वाणमिव लोकांस्त्रीन्सिद्धगन्धर्वसेवितम्
वामपार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम्
नानाभक्ष्योपचारैश्च पूजयेद्गंधचन्दनैः
अनन्तशुक्लवर्णाभं पीतवस्त्रं चतुर्भुजम्
आधारभूतं जगतां स्वर्णयज्ञोपवीतिनम् । नानाभरणसम्पन्नं फणाशतसमन्वितम्
ॐ नमोस्त्विति मंत्रेण स्थापयेद्वरुणांतरे 2.2.19.
बिभ्रतं च श्रुतं तद्वत्तथा दंडकमण्डलू