धूम्रवर्णैश्च माल्यैश्च धूम्रगंधानुलेपनैः
पूजयेत्परया भक्त्या केतुं सर्वार्थसिद्धिदम्
येषु पूजितमात्रेषु नालभ्यं विद्यते क्वचित् द्विभुजं पीतसंकाशं नीलेन्दीवरलोचनम्
रक्तोत्पलधरं तद्वत्पीतवाससमन्वितम्
इन्द्राणीं चिंतयेद्वामे उत्पलद्वयधारिणीम् त्रातारमिति मन्त्रेण स्थापयेत्कर्णिकोत्तरे
पूजयेत्परया भक्त्या धृपगंधानुलेपनैः
बलिं क्षीरान्वितं दद्यान्मोदकं सितशर्कराम्
अर्धचन्द्रसमस्थं च अजवाहनमुत्तमम्
वरदं विभयं मालां दक्षे सूत्रं कमण्डलुम् 2.2.19.
नानाभरणसंपन्नं सिद्धगन्धर्वसेवितम्
पूजयेद्रक्तपुष्पैश्च रक्तमाल्यानुलेपनैः
नीलाञ्जनचयप्रख्यं नीलसिंहासनस्थितम्
करालवदनं भीमं ज्वाला घूर्णितलोचनम् महिषं चिंतयेद्वामे चित्रगुप्तं च दक्षिणे
अच्छीयस इति मंत्रेण स्थापयेद्यमदिग्दले राक्षसेन्द्रं महाकायं कृष्णवर्णं द्विबाहुकम्
नानाभरणसंपन्नं खङ्गहस्तं महाब लम्
एष त इति मंत्रेण नैर्ऋत्यां स्थापयेद्दिशि
धूपैः कृष्णपताकाभिर्बलिभिर्माषमिश्रितैः
द्विभुजं पाशहस्तं च सुन्दराङ्गं वरप्रदम्
सितचन्दनधूपैश्च पताकाभिर्ध्वजैरपि ।। 2.2.19.
समीरणं कुञ्जरवर्णसन्निभं मृगाधिरूढं द्विभुजं द्विनेत्रम्
नीलचन्दनवस्त्रैश्च नीलमाल्यानुलेपनैः
धूपैर्नीलपताकाभिर्बलिभिः पायसैरपि
ध्यायेद्द्विनेत्रं द्विभुजं धनेशं पीतांबरं वै नरवाहनं च
गन्धचंदनवस्त्रैश्च पीतमाल्यानुलेपनैः
धूपैः पीतपताकाभिर्बलिभिः पायसैरपि
स्निग्धकर्पूरसंकाशं तुषारकिरणप्रभम्
उत्तंगवृषभारूढं त्रिनेत्रं भस्मभूषितम्
एवं ध्यात्वा महेशानं स्थापयेदीशदिग्दले
पूजयेत्परया भक्त्या भक्ष्यभोज्यैरनेकशः 2.2.19.
सितध्वजपताकाभिर्बलिभिः पायसादिभिः