रौहिणेयं महाकायं नीलनीरजलोचनम्
खङ्गचर्मधरं तद्वद्गदापरशुधारिणम्
नानाभरणसंपूर्णं मृगेन्द्रवरवाहनम्
पूजयेद्गन्धपुष्पाद्यैः पीतगंधानुलेपनैः
पीतवर्णं गुरुं ध्यायेत्पीतपद्मासनस्थितम्
वरदं दंडहस्तं च साक्षसूत्रकमंडलुम्
बृहस्पतय इति मंत्रेण नैर्ऋत्यां दिशि संस्थितम्
धूपैः पीतपताकाभिः पीतोदकनिवेदनैः
ध्यायेच्छुक्रं भृगुसुतं श्वेतपद्मासनस्थितम् 2.2.19.
महाबाहुं विशालाक्षं साक्षसूत्रकमंडलुम्
सिंहासनगतं देवं नीलेन्दीवरलोचनम्
नानादैत्येन्द्रपुत्रांश्च पाठयन्तं मुहुर्मुहुः
एवं ध्यात्वा भृगुश्रेष्ठं जपन्नन्नात्परिस्रुतम्
सितचंदनवस्त्रैश्च धूपमाल्यानुलेपनैः
पूजयेत्परया भक्त्या पुंडरीकाक्षतैरपि
इन्द्रनीलनिभं श्यामं दिव्य बाणधनुर्धरम्
नीलांबरधरं नीलपद्ममालोपशोभितम्
शन्नोदेवीति मंत्रेण वायव्यां दिशि विन्यसेत्
धूपैर्नीलपताकाभिर्बलिभिर्माषमिश्रितैः 2.2.19.
द्विभुजं भीमकायं च धूम्राक्षं धूम्रवाससम्
धूम्रवर्णैश्च माल्यैश्च धूम्रगंधानुलेपनैः
पूजयेत्परया भक्त्या केतुं सर्वार्थसिद्धिदम्
येषु पूजितमात्रेषु नालभ्यं विद्यते क्वचित् द्विभुजं पीतसंकाशं नीलेन्दीवरलोचनम्
रक्तोत्पलधरं तद्वत्पीतवाससमन्वितम्
इन्द्राणीं चिंतयेद्वामे उत्पलद्वयधारिणीम् त्रातारमिति मन्त्रेण स्थापयेत्कर्णिकोत्तरे
पूजयेत्परया भक्त्या धृपगंधानुलेपनैः
बलिं क्षीरान्वितं दद्यान्मोदकं सितशर्कराम्
अर्धचन्द्रसमस्थं च अजवाहनमुत्तमम्
वरदं विभयं मालां दक्षे सूत्रं कमण्डलुम् 2.2.19.
नानाभरणसंपन्नं सिद्धगन्धर्वसेवितम्