आवहं प्रवहं चैव तथैवोद्वहसंवहौ
विन्यसेदुत्तरद्वारि मरुतं च पराभवम्
पिशाचान्राक्षसान्भूतान्वेतालांश्च तथा क्रमात्
गोमुखो नन्दभद्रश्च द्विजिह्वो मलिनस्तथा
भूमिदो वरदश्चैव जयंतः क्षोभकस्तथा
अंगदो नीलकर्णोऽसौ वसंतो यावकस्तथा
गंधपुष्पाक्षतैर्भक्तं सर्वे देवा ग्रहादयः
ध्यायेदादित्यमारक्तं रक्तपद्मासनस्थितम्
यवविद्रुमसंकाशं सिंदूरारुणसप्रभम् 2.2.19.
इहागच्छेति चावाह्य पाद्यार्घ्यैश्च पृथग्विधैः
बलिं च लोहितं दद्यात्पायसं दधिखंडकम्
श्वेतांबरधरं श्वेतं शुक्लगंधानु लेपनम्
नानाभरणसंपन्नं सिद्धगंधर्वसेवितम्
इमं देवा इति मंत्रेण स्थापयेत्पूर्वदिग्दले
पायसैः श्वेतबलिभिर्दधिभक्तं निवेदयेत्
रक्तमाल्यांबरं देवं रक्ताभरणभूषितम्
किरीटकुंडलधरं मेषकंठं चतुर्भुजम्
सर्वकामप्रदं देवं सिद्धगंधर्वसेवितम्
अग्निमीळेतिमंत्रेण स्थापयेदग्निदिग्दले 2.2.19.
धूपै रक्तपताकाभिर्गुडभक्तनिवे दनैः
रौहिणेयं महाकायं नीलनीरजलोचनम्
खङ्गचर्मधरं तद्वद्गदापरशुधारिणम्
नानाभरणसंपूर्णं मृगेन्द्रवरवाहनम्
पूजयेद्गन्धपुष्पाद्यैः पीतगंधानुलेपनैः
पीतवर्णं गुरुं ध्यायेत्पीतपद्मासनस्थितम्
वरदं दंडहस्तं च साक्षसूत्रकमंडलुम्
बृहस्पतय इति मंत्रेण नैर्ऋत्यां दिशि संस्थितम्
धूपैः पीतपताकाभिः पीतोदकनिवेदनैः
ध्यायेच्छुक्रं भृगुसुतं श्वेतपद्मासनस्थितम् 2.2.19.
महाबाहुं विशालाक्षं साक्षसूत्रकमंडलुम्