विमलासनाय च नमो नमः सारासनाय च
ततो भूमितले वामहस्तं दत्त्वा पठेन्नरः
त्वं च धारय मां नित्यं पवित्रमासनं कुरु
देवं हृत्पद्मके नीत्वा प्राणायामत्रयं चरेत्
गन्धपुष्पैस्तथा वस्त्रैर्नैवेद्यैर्विविधैरपि
आब्रह्मन्निति ऋचा तद्विष्णोरिति संस्मरन्
ततो देवशरीरं तु नवमासाद्य त्रिंशतम्
ततो राजाधिराजेन भूतशुद्धिं समाचरेत्
शुद्धस्फटिकसंकाशं शंखकुन्देन्दुसप्रभम् 2.2.19.
शुक्लमाल्यांबरं शुक्लं शुक्लगंधानुलेपनम्
स्तूयमानं सुरगणैः सिद्धगंधर्वसेवितम्
राजीवलोचनं नित्यं नागलोकोपशोभितम्
जलाशयगतं देवं चिंतयेज्जलशायिनम्
अर्घ्यपात्रं ततः कृत्वा त्रिभागजलपूरितम्
आसनं यागवस्तूनि प्रोक्षयेत्तेन वारिणा
तन्नो अरुणः प्रचोदयादिति स्नानं समाचरेत्
धर्माधर्मादिकान्सर्वान्त्सत्त्वादीनथ चार्चयेत्
मध्ये शक्तिं च क्षीरोदमनंतं पृथिवीं तथा
पञ्चतत्त्वं समभ्यर्च्य सांगोपागमनंतरम् 2.2.19.
गृहीत्वा पूर्ववद्देशे स्थापयेत्कलशोपरि
एह्येहि भगवन्वरुण एष यज्ञः प्रवर्तते
एवमावाह्य लोकेशमष्टौ मुद्राः प्रदर्शयेत्
पुष्पाञ्जलिं ततो दत्त्वा मूलमंत्रेण देशिकः
सत्त्वाद्याः पूजयेत्तत्र तेषामेव वरांगनाः
पूर्वादिपत्रमध्ये तु ग्रहानष्टौ प्रपूजयेत्
कर्णिकादक्षिणे पूर्वं वामे चापि शचीपतिम्
नैर्ऋत्ये वरुण स्याथ मध्येऽनंतं प्रपूजयेत्
विष्णुं चापि गणेशं च पृथिवीं गंधचन्दनैः
जानुभ्यामवनीं गत्वा विजयाख्यस्तवं पठेत् 2.2.19.
नैर्ऋत्यां विश्वकर्माणं वायव्ये तु सरस्वतीम्