द्वारे च तस्मिंश्च निरूपिता वा रंभा सुपुष्पा सुखशाड्वलाश्च
मुंजोद्भवैर्बर्हिसमुद्भवैर्वा सुरंजितश्चेत्त्रितपद्मपल्लवैः
वेदिस्तथा मंडप मध्यभागे कार्या च कोणेस्थितुषादिहीना
वेद्यां परित्यज्य दशांगुलानि ऐशान्यत स्त्रीणि तथा पराणि
प्रासादे च तडागे च महारामे तथैव च
कुंडं चापि प्रकुर्वीत यथाभ्यन्तरमेखलम्
कुंडानि कुर्यान्नव कुंडपक्षे वेद्यास्तथोच्चैरविदिक्षु चैव। सर्वाणि सर्वत्र च मेखलानि षडस्रपंचास्रसमेखलानि
अष्टास्रजान्यब्जत्रिकोणकानि तथार्द्धचन्द्रं चतुरस्रकं च
माल्याम्बराच्छादितपूर्णपाथाः सवृत्तपत्रश्च सुवर्णगर्भः
देवग्रहपूजाविधानवर्णनम् यजमानस्तथा नित्यं कर्म कृत्वा यथाविधि
पंच देवान्नमस्कृत्य तथा यज्ञेश्वरं हरिम्
एतस्मिन्पुण्यदेशे तु फलं गोत्रश्च वै यमः
यथायथा स्वतन्त्रोक्तं पुण्या रण्याभिधायकम्
यथायथा च कल्पोक्तं यथाकुण्डं विधानतः
जलाशयप्रतिष्ठां च करिष्ये विधिवद्द्विजाः
मातृयागं पुरस्कृत्य वृद्धिश्राद्धं समापयेत्
भेर्यादिघोषेण सुमंगलेन पद्यं लिखेदत्र सषोडशाक्षरम्
ब्रह्मेशान्वरयेत्सर्वानाचार्यं तु विशेषतः
नानारत्नैश्च वस्त्रैश्च आचार्यं वरयेद्बुधः 2.2.19.
यथामानं यथाशक्ति यथाभिवृणुयाद्बुधः
ततः सर्वौषधीभिश्च यजमानः सपत्निकः
यवगोधूमनीवारतिलश्यामाकशालयः
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः
ब्राह्मणैरभ्यनुज्ञातः पुरोहितपुरःसरः
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः
चरके पूजयेद्विघ्नं गंगां च यमुनां तथा
वेदिं प्रदक्षिणीकृत्य नमस्कुर्याद्यथाविधि
स्वस्ति वाच्यं ततः कृत्वा पंच देवान्प्रपूजयेत्
अपक्रामंतु ये भूता ये चास्मिन्विप्रकारकाः 2.2.19.
पूजयेदासनं पश्चात्स्वकीयं पुष्पचंदनैः