जलाशयारामकूप संकल्पे पूर्वदिङ्मुखः
यज्ञीयपात्रपुटकं हस्तस्थाने प्रकीर्तितम् 2.2.17.
आकाशे निक्षिपेद्यागे व्रते ईशेपि नित्यके
शुक्तिकांस्यादिहस्तैश्च ताम्ररौप्यादिभिस्तथा
प्रणवं पूर्वमुच्चार्य यजेद्यज्ञेश्वरं स्मरेत्
सूर्यः सोमो यमः कालो महाभूतानि पंच च
इत्युच्चार्य न्यसेद्धर्मं ध्यात्वा पुष्पाञ्जलिं सृजेत्
धर्मः शुभ्रवपुः सितांबरधरः कार्योर्ध्वदेशे वृषो हस्ताभ्यामभयं वरं च सततं रूपं परं यो दधत्
यज्ञसंबंधिविप्रांश्च एकाहेनैव योजयेत्
पुनःपुनर्नियोज्यानि ब्राह्मणा हविरग्नयः
योगस्थापनदेवप्रतिष्ठापनवर्णनम् देवादिसंस्थापनमा हुरत्र यावन्न सुप्तो मधुसूदनश्च
वारे भृगोर्देवगुरोर्बुधस्य सोमस्य सर्वाः शुभदा भवंति
शुद्धा द्वितीया च तथा तृतीया त्रयोदशी चापि तथैव विप्राः
प्राणप्रतिष्ठा च जलाशयादेरेताः प्रशस्तास्तिथयो भवंति
षडशीतिलोकाप्ययनद्वयेन युगादिके पुण्यादिने शुभे च
सुचारु ईषत्प्रवणे च देशे सुवर्तुलः षोडशहस्तमंडपः
पूर्वादिद्वारेषु चतुष्टयेषु प्लक्षादिभिस्तोरणकैः सुरेशः
ऊर्ध्वे च हस्तानमितानि यानि विचित्रमाल्यांबरभूषितानि
सर्वत्र यागेपि हि मंडपस्य कार्या ध्वजा दिक्षु विदिक्षु शुभ्राः
ध्वजाश्च यस्मिन्दशहस्तसम्मितास्तस्मिन्पताका अपि पञ्चहस्ताः 2.2.18.
द्वारे च तस्मिंश्च निरूपिता वा रंभा सुपुष्पा सुखशाड्वलाश्च
मुंजोद्भवैर्बर्हिसमुद्भवैर्वा सुरंजितश्चेत्त्रितपद्मपल्लवैः
वेदिस्तथा मंडप मध्यभागे कार्या च कोणेस्थितुषादिहीना
वेद्यां परित्यज्य दशांगुलानि ऐशान्यत स्त्रीणि तथा पराणि
प्रासादे च तडागे च महारामे तथैव च
कुंडं चापि प्रकुर्वीत यथाभ्यन्तरमेखलम्
कुंडानि कुर्यान्नव कुंडपक्षे वेद्यास्तथोच्चैरविदिक्षु चैव। सर्वाणि सर्वत्र च मेखलानि षडस्रपंचास्रसमेखलानि
अष्टास्रजान्यब्जत्रिकोणकानि तथार्द्धचन्द्रं चतुरस्रकं च
माल्याम्बराच्छादितपूर्णपाथाः सवृत्तपत्रश्च सुवर्णगर्भः
देवग्रहपूजाविधानवर्णनम् यजमानस्तथा नित्यं कर्म कृत्वा यथाविधि