चिरं मे शाश्वती कीर्तिर्यावल्लोकाश्चराचराः
त्वमादिः सर्वभूतानां संसारार्णव तारकः
ब्रह्मणैव समुद्भूत प्रकाशितदिगन्तर 2.2.17.
प्रतप्तकनकाभास भासितद्युतिभूतल
प्रफुल्लकनकाभास भास्वरासुरभूषित
षडंगवेदवेदज्ञ ऋत्विङ्गमोक्षप्रदो भव
वेद्याः पश्चिमभागे तु आचार्यं स्थापयेद्बुधः
होतारं स्थापयेत्तत्र विधिज्ञमथ चोत्तरे
द्वारिद्वारि प्रयत्नेन द्वारपालाननुक्रमात्
पूजयेद्गन्धपुष्पाद्यैर्वाससो युगलेन तु
नारायणस्वरूपेण यज्ञं मे सफलं कुरु
ऋग्वेदार्थस्य तत्त्वज्ञ इन्द्ररूप नमोऽस्तु ते
यजुर्वेदार्थतत्त्वज्ञ ब्रह्मरूप नमोऽस्तु ते 2.2.17.
मांगल्यं कर्मणां नित्यं सर्वज्ञं ज्ञानरूपि णम्
पालय त्वं दिशः सर्वा विदिशश्च तथा इमम् न संकल्पं चरेद्यागं व्रतं देवार्चनं तथा
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः
फलं चाल्पाल्पकं तस्य धर्मस्यार्द्धक्षयो भवेत्
कामात्परो नैव भवेन्निष्कामोऽपि न शोभनः
संकल्पेन विना यस्तु धर्मं चरति मानवः
न कुर्यात्स्थापने चैव कुर्याद्वै मंडलांतरे
जलाशयारामकूप संकल्पे पूर्वदिङ्मुखः
यज्ञीयपात्रपुटकं हस्तस्थाने प्रकीर्तितम् 2.2.17.
आकाशे निक्षिपेद्यागे व्रते ईशेपि नित्यके
शुक्तिकांस्यादिहस्तैश्च ताम्ररौप्यादिभिस्तथा
प्रणवं पूर्वमुच्चार्य यजेद्यज्ञेश्वरं स्मरेत्
सूर्यः सोमो यमः कालो महाभूतानि पंच च
इत्युच्चार्य न्यसेद्धर्मं ध्यात्वा पुष्पाञ्जलिं सृजेत्
धर्मः शुभ्रवपुः सितांबरधरः कार्योर्ध्वदेशे वृषो हस्ताभ्यामभयं वरं च सततं रूपं परं यो दधत्
यज्ञसंबंधिविप्रांश्च एकाहेनैव योजयेत्
पुनःपुनर्नियोज्यानि ब्राह्मणा हविरग्नयः