अन्नं च परमान्नं च ह्यवेक्ष्यं तिलमेव च
शैवे यवादितः कार्या शाक्ते पुष्पादितो भवेत् 2.2.16.
कृष्णे च करवीरादि श्रीफलानि च त्रैपुरे
देवध्यानवर्णनम् सर्वे शुद्धा लक्षिता लक्षणाद्यैरेकः कार्यो जापकोस्मिन्महात्मा
दिव्यैर्गंधैर्गंधमाल्यैः सुवर्णैस्तैलं कार्यं ब्राह्मणाः पञ्चविंशाः
नार्हयित्वा यथोक्तेन कश्चित्पत्रं निवेशयेत्
प्रतिष्ठादिषु सर्वेषु सम्यग्विप्रानथार्हयेत्
प्रदद्यादर्हणं सम्यक्पश्चात्पात्रं निवेदयेत्
प्रत्येकं ब्राह्मणा यज्ञे वेदमन्त्रेषु पारगाः
विशिष्टानामभावेऽपि कुर्यात्कुशमयान्द्विजान्
न कुर्याच्चरणोद्देशं तथा प्रहरसंहतिम्
तुलापुरुषदाने च तथा च हाटकाचले
न पात्रं प्रतिकृत्यर्थं न चालं सोदकं तथा 2.2.17.
शूद्रसंस्कारकश्चैव कृपणो गणयाजकः
शूद्रगेहनिवासी च शूद्रप्रेरक एव च
बन्धुद्वेषी गुरुद्वेषी भार्याद्वेषी तथैव च
प्रतिग्राही च कुनखः पारदारिक एव च
अदीक्षितः कदर्यश्च चंडरोगी गलद्व्रणः
वरणांते तु पात्राणां पूजामन्त्राञ्छृणु द्विज
ब्रह्ममूर्तिस्त्वमाचार्यः संसारात्पाहि मां विभो
चिरं मे शाश्वती कीर्तिर्यावल्लोकाश्चराचराः
त्वमादिः सर्वभूतानां संसारार्णव तारकः
ब्रह्मणैव समुद्भूत प्रकाशितदिगन्तर 2.2.17.
प्रतप्तकनकाभास भासितद्युतिभूतल
प्रफुल्लकनकाभास भास्वरासुरभूषित
षडंगवेदवेदज्ञ ऋत्विङ्गमोक्षप्रदो भव
वेद्याः पश्चिमभागे तु आचार्यं स्थापयेद्बुधः
होतारं स्थापयेत्तत्र विधिज्ञमथ चोत्तरे
द्वारिद्वारि प्रयत्नेन द्वारपालाननुक्रमात्
पूजयेद्गन्धपुष्पाद्यैर्वाससो युगलेन तु