कल्पक्षेत्रं समागम्य कालिंद्यां तमपातयत्
सामन्तो नाम तं गृह्य श्वशुरालयमाययौ
भाद्रकृष्णाष्टमीसौम्ये ब्राह्मनक्षत्रसंयुते
श्यामांगः स च पद्माक्ष इंद्रनीलमणिद्युतिः
विस्मिता जननी तत्र दृष्ट्वा बालं तमद्भुतम्
उदयः किमहो जातो देवानां सूर्यरूपकः
कृष्णांशो भूतले जातः सर्वानन्दप्रदायकः
इत्याकाशवचः श्रुत्वा ते परं हर्ष माययुः
श्यामांगं सुन्दरं बालं सर्वलक्षणलक्षितम्
तदा तु नगरी सर्वा हर्षभूता बभूव ह 3.3.9.
ब्राह्मी तु सुषुवे पुत्रं पार्षदांशं महाबलम्
ब्राह्मणाश्च तदागत्य जातकर्म ह्यकारयन्
क्रमेण वर्द्धिता बालाः सर्वलोकशिवंकराः
तृतीयाब्दे वयः प्राप्ते कृष्णांशे बलवत्तरे
क्रीडन्स चन्दनारण्ये कृष्णांशो भ्रातृभिः सह
अश्विनी हरिणी दिव्या उच्चैःश्रवसमन्तिके
वर्षांतरे च सुषुवे कपोतं तनयं शुभम्
ब्राह्मणं शिवशर्माणं सर्वविद्याविशारदम्
अष्टाब्दे चैव कृष्णांशो नामपत्रादिकां क्रियाम्
सूत उवाच नवमाब्दं वयः प्राप्ते कृष्णांशो बलवत्तरः
धर्मशास्त्रं तथैवापि सर्वश्रेष्ठं बभूव ह
करार्थं प्रेषयामास स्वसैन्यं च महावतीम्
ऊचुः परिमलं भूपं शृणु चंद्रकुलोद्भव
षडंशं करमादायास्मद्राजाय ददंति वै
अद्यप्रभृति चेद्राज्ञे तस्मै दद्यात्करं न हि
ये भूपा जयचंद्रस्य पक्षगास्ते हि तद्भयात्
इति श्रुत्वा स नृपतिस्तस्मै राज्ञे महात्मने
दशलक्षमितं द्रव्यं गृहीत्वा ते समाययुः
तदा ते लक्षशूराश्च कान्यकुब्जमुपाययुः 3.3.10.
पृथ्वीराजो महाराजो दंडं त्वत्तः समिच्छति