चन्द्रादित्यौ चोत्पवने वीक्षणे च दिशस्तथा
होमं कुर्याद्द्विजश्रेष्ठा विधिं कुर्यात्समाहितः
यजेत्सुपशुबद्धेषु संस्कारे चैव पर्वणि 2.2.14.
अधिदैवेन जानीयात्करवल्यां पंचफलं यतः
देवध्यानवर्णनम् अस्य यज्ञे परिज्ञानाज्जिह्वा सम्यक्फलप्रदा
हिरण्यवर्णां प्रथमां वह्निजिह्वां महाद्युतिम्
कनकां द्विभुजां शुक्लां हस्ताभ्यां दर्भसंयुताम्
उद्यदिन्दुनिभां रक्तां चतुर्भिर्भुजप ल्लवैः
भिन्नांजनचयप्रख्यां स्वर्णकुंभं तु वामतः
सुप्रभामण्डलाभा च कराभ्यां तत्कृताञ्जलिः
जपाकुसुमसंकाशा बहुरूपा सखे मम
नीलोत्पलनिभे देवि वह्निवर्णपराभवे
देवध्यानविधानवर्णनम् धान्यप्रतिष्ठां तस्यैव यूपं चापि यथाविधि
रात्रौ मूलाग्रे च घटे स्थापयेद्गणनायकम्
ब्रह्माणं च तडागेषु वरुणं शान्तियागके
शैवे शैवं तथा प्रोक्तं प्रपायामथ वारुणम्
द्रुपदादीति मन्त्रेण स्नापयेत्प्रथमं बुधः
सुनाभेति च मंत्रेण द्वाभ्यामेव विशिष्यते
कांडादिति च मंत्रेण दद्याद्दूर्वाशतं ततः
समिच्छेत्यञ्जनं दद्याद्दुःस्थं सुरासुरा जपन्
यूपे चैव विशेषोयमुत्तराग्रं प्रविन्यसेत्
गायत्र्या प्रथमं चैव आपो हिष्ठेति वै जपन् 2.2.16.
अभिमन्त्र्याथ ब्रह्मेति त्रिरात्रं मंत्रमीरयन्
त्वं गन्धर्वेति मन्त्रेण तथा सुभाभ इत्यपि
धूरसीति च तथा धूपमास्रज्योतिर्भिर्दीपकम्
विश्वामीति च निम्न्यंतकांडादिति तथाक्षतम्
पादोऽस्येत्यथ भुक्तं स्याद्याः फलिनीति पुनः फलम्
युवा सुवासेति वस्त्रं नागगन्धेति चन्दनम्
सुनातीति वचो दद्यात्ततश्चावाहयेत्प्रभुम्
आचार्यो यजमानश्च ऋत्विग्भोजनमाचरेत्