प्रकृते योजयेन्मन्त्री स्तुतौ चापि नियोजयेत् छंदश्च बृहती ख्यातं तदेवाग्निः प्रकीर्तितः
इडो गतमिति मन्त्रस्य ऋषिः को गुह्यसंज्ञकः
उद्वर्तन इति मंत्रस्य ऋषिः को नु प्रकीर्तितः
मखविधानवर्णनम् कुशकण्डीं स्वगृह्येन कृत्वाग्निं चार्चयेत्ततः
आघाराज्यभागौ तु महाव्याहृतयस्त्रयः
एतन्नित्यं हि सर्वत्र होमे कर्मणि निर्दिशेत्
अग्नये चैव सोमाय आज्यभागौ प्रकीर्तितौ
अयाश्चाग्ने इति तथा ये ते शतमनुत्तमम्
प्राजापत्याहुतिश्चैका स्विष्टकृच्चापरा स्मृता
कृत्वा सकृद्देवतोद्देशं होमं पश्चात्समाचरेत्
अन्यत्र विपरीतेन स्वाहांतेन हुनेद्बुधः
नित्यं वर्ज्यं शतार्धेन वैश्वदेवे तथैव च
एकाहे वाघारारज्यौ कृत्वा नैमित्तिकीं कृतीः 2.2.14.
विशेषतस्त्र्यहादौ तु अघारावाज्यपूर्वकम्
आघाराराज्यपूर्वेण ततो नैमित्तिकं चरेत्
द्विजातिः पतितो यत्र द्वित्रिकं च चतुश्चतुः
द्विजातीनां विवाहे तु नैत्यिकं प्रथमं भवेत्
दद्यादेकं च नित्यं च पृथङ् नित्यं न चाचरेत्
एकस्मिन्दिवसे कुर्यात्तत्रापि नैत्तिकं त्यजेत्
अजस्यानियमे चेन्द्रोऽधिश्रयणं विवस्वतः
चन्द्रादित्यौ चोत्पवने वीक्षणे च दिशस्तथा
होमं कुर्याद्द्विजश्रेष्ठा विधिं कुर्यात्समाहितः
यजेत्सुपशुबद्धेषु संस्कारे चैव पर्वणि 2.2.14.
अधिदैवेन जानीयात्करवल्यां पंचफलं यतः
देवध्यानवर्णनम् अस्य यज्ञे परिज्ञानाज्जिह्वा सम्यक्फलप्रदा
हिरण्यवर्णां प्रथमां वह्निजिह्वां महाद्युतिम्
कनकां द्विभुजां शुक्लां हस्ताभ्यां दर्भसंयुताम्
उद्यदिन्दुनिभां रक्तां चतुर्भिर्भुजप ल्लवैः
भिन्नांजनचयप्रख्यां स्वर्णकुंभं तु वामतः
सुप्रभामण्डलाभा च कराभ्यां तत्कृताञ्जलिः