विष्णो रराटमंत्रेण छेदयेदग्रभागतः
न रसेन न कार्ष्णेन न दृढेन कदाचन
छेदयेत्पिञ्जुलीं चापि पवित्रमथ देशिकः
पंक्तिश्छंदो भवेद्देवः संस्कारे विनियोजयेत्
कायतीर्थेन तत्कुर्याद्देवतीर्थेन चेत्यपि
मध्यमामध्यमांगुष्ठ अपामार्गेण मंत्रिभिः
ऋषिः स्याद्गौतमश्छन्दो धर्मराजोऽथ देवता
सकृद्द्रव्ये त्रिभिः काष्ठैस्त्रिवारं मंत्रपुष्पकैः
प्रादेशांतरतश्चैव आज्यस्थालीमथार्पयेत् 2.2.13.
द्यूतं निःसारयेत्तत्तु निरूप्याशु क्रमेण तु
ऋषिर्नारायणश्छन्दः पंक्तिरीशोऽथ देवता
अवेक्ष्य ईशमारभ्य दक्षिणावर्तकेन तु
परिवेष्याज्यस्थालीं च त्रिः सकृद्वा समाहितः
ऋषिः स्याज्जमदग्निश्च गायत्री छन्द ईरितम्
घृतस्य च तथा त्वं नो ब्रह्मा वै तृप्यतामिति
त्रिरात्रं तु महायोगे सकृदन्यत्र सत्तमाः
अग्रान्मूलं पुनः कुर्यात्संपूज्य च पुनः पुनः
भुवं पुनः प्रतप्याथ प्रोक्षण्युत्तरतो न्यसेत्
अंगुष्ठे द्वे अनामे तु गृह्णीयात्तत्पवित्रकम् 2.2.13.
पाताले त्रिस्तथाकाशे अवेक्ष्याज्यं ततस्त्रिभिः
ततः पायसमादाय उत्थाय च समन्त्र कम्
सपवित्रं दक्षकरे गृहीत्वा प्रोक्षणीयकम्
अग्निं पर्युक्षयेत्पश्चाद्दक्षिणावर्तकेन च
संयावार्थं च भो विप्रा अग्निवत्तत्र देशिकः
कमंडलुं परे हस्ते ततो दक्षकरेण तु
अंते च देवतोद्देशं प्राजापत्यं समीरयन्
वायुकोणं समारभ्य वह्निकोणान्तकेन तु
अग्नीषोमात्मकं चैव जुहुयाद्राक्षसादितः
पश्चात्स्विष्टं ततो दद्याद्दद्याच्च मतिभिस्तथा 2.2.13.
उद्वाह इति मंत्र स्य अथर्वण ऋषिः स्मृतः